________________
२३३ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१७२५ सर्वाश्च संपदः सन्ति मद्गार्हस्थ्यसमं न हि । इदमेकं महहुःखं शृणु वक्ष्यामि ते पितः ॥ ७२ मय्येव स्नेहवान्भर्ता विहायान्याः सहोदराः । अत्रैव नियतं भुङ्क्ते शेतेऽत्रैव निशामु च ॥ इदमेकं हि दुःखं मे नान्यत्किंचन विद्यते ॥
वसिष्ठ उवाचइत्युक्तो नृपतिः पुत्र्या द्वितीयं भवनं गतः । एवं तयाऽपि कथितस्तृतीयं भवनं गतः ॥ ७४ एवं समस्तभवनं [सं]प्राप्य [च] महीपतिः । सुताभिस्ताभिरित्युक्तः संतोषं परमं ययौ ॥ ७५ आश्चर्यमेतदालोक्य विस्मयोत्फुल्ललोचनः । उवाच सौभरि राजा दृष्टोऽद्य महिमा तव ।। ७६ अदृष्टपूर्वः कुत्रापि तव भावोऽयमद्भुतः । इति संतोष्य विभेन्द्रं जगाम स्वपुरं नृपः ॥ ७७ अथ कालेन ताः कन्याः प्रत्येकं तनयत्रयम् । लेभिरे मुनिशार्दूलाज्ज्वलत्पावकतेजसः॥ ७८ एवं पुत्राश्च पौत्राश्च नप्तारो बहवोऽभवन् । एवं सहस्रसंतानः सौभरिनृपसत्तम ॥ ७९ संसारसौख्यभुक्तस्थौ चिरकालं निजाश्रमे । एवं द्वादश माघा वै जले मग्नेन तिष्ठता ॥ ८० कृ(नी)ताः सौभरिणा राजनेवं स्यान्माघवैभवः । एवं व्याजेन सिध्यन्ति माघाः पुण्यवां नृणाम् ।। सौभरेरिदमाख्यानं ये शृण्वन्ति नरोत्तमाः । तेषां न संततिच्छेदो भविता नात्र संशयः ८२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे सौभर्युपाख्यानं नाम
द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ २३२ ॥ (१४) आदितः श्लोकानां समष्टयङ्काः-४३३६१
अथ प्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ।
"
-
वसिष्ठ उवाचविवाहं विधिवत्कृत्वा मृगशृङ्गो मुनीश्वरः । गार्हस्थ्यं सम्यगकरोद्वेदोक्तेनैव वर्त्मना ॥ १ तस्य गार्हस्थ्यसदृशं न भूतं न भविष्यति । सुवृत्ता कमला चैव विमला सुरसा तथा ॥ २ पातिव्रत्यरता नित्यं पतिशुश्रूषणे रताः। तथैव तस्य भार्याणां पातिव्रत्यसमं न हि ॥ एवं ताभिः स धर्मात्मा सम्यग्धर्म चचार ह ॥
दिलीप उवाचपतिव्रतालक्षणं च गृहस्थाश्रमलक्षणम् । अहं वेदितुमिच्छामि सम्यगेतद्वयं वद ॥
वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि गृहस्थाश्रमलक्षणम् । सदाचारवता पुंसा जितो लोकावुभावपि ॥ ५ ब्राह्म मुहूर्ते चोत्थाय धर्ममर्थ च चिन्तयेत् । कायक्लेशं तदुद्भूतं चिन्तयेन्मनसेश्वरम् ॥ नैऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत् ॥ ७ दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । [+कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः] ॥ ८ अन्तर्धाय तृणैर्भूमि शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनोच्छासवर्जितः॥ ९ तिष्ठेनातिचिरं तत्र पुरीषं नावलोकयेत् । गृहीतशिश्नश्चोत्थाय शौचं कुर्यादतन्द्रितः॥ १०
+ इदमधे ठ. पुस्तकस्थम् ।
sur