________________
4
२३२ द्वात्रिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
वसिष्ठ उवाच -
२३
शृणु राजन्प्रवक्ष्यामि विवाहान्क्रमशस्तव । विवाहा ब्राह्मदेवार्षाः प्राजापत्यासुरौ तथा ।। २१ गान्धर्वो राक्षसश्चापि पैशाचोऽष्टम उच्यते । ब्राह्मो वै वरमाहूय यत्र कन्या स्वलंकृता ।। २२ दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम् । यज्ञार्थमृत्विजे दैवस्तज्जः पाति चतुर्दश ।। वरादादाय गोद्वंद्वमार्षस्तज्जः पुनाति षट् । सहोभौ चरतां धर्ममित्युक्त्वा दीयतेऽर्थिने ॥ २४ तत्र या दीयते कन्या तज्जो वंशान्पुनाति षट् । चत्वार एते विप्राणां धर्म्याः पाणिग्रहाः स्मृताः आसुरः क्रयणाद्रव्यैगन्धर्वोऽन्योन्यमैत्रतः । प्रसह्य कन्याहरणं राक्षसो निन्दितः सताम् || २६ छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः । प्रायः क्षत्रविशामुक्ता गान्धर्वासुरराक्षसाः ॥ २७ अष्टमश्चैष पापिष्ठः पापिष्ठानां हि संभवेत् । सवर्णया कुशो ग्राह्यो धार्यः क्षत्रियया शरः || २८ प्रतोदो वैश्यया धार्यो वासोन्तः पज्जया तथा । असवर्णास्त्रेष विधिः स्मृत उत्कृष्टवेदनैः ।। २९ सवर्णाभिस्तु सर्वाभिः पाणिग्रह्यस्त्वयं विधिः । धयैर्विवाहैर्जायन्ते धर्म्या एव शतायुषः ।। ३० अधर्मैर्धर्मरहिता मन्दभाग्यधनायुषः । तस्माद्राह्मो विवाहस्तु ब्राह्मणानां विशिष्यते || प्राजापत्य विवाहो हि स तु सौभरिणा कृतः ॥
दिलीप उवाच
किमर्थमुपयेमे स सौभरिर्भगवान्ऋषिः । पञ्चाशत्कन्यकाः पूर्वमेतद्विस्तरतो वद ||
वसिष्ठ उवाच
३३
३७
काम्पिल्यनगरे पूर्व सौभरिर्नामतो द्विजः । सर्ववेदार्थतत्त्वज्ञः सर्वभूतदयापरः ॥ योगाभ्यासपरो नित्यं विषयेषु पराङ्मुखः । आदौ चान्द्रायणं चक्रे पुनर्मासोपवासकृत् ॥ ३४ शीर्णपर्णाशनः पश्चान्निराहारस्ततः पुनः । अन्तर्जले पुनः स्थित्वा द्वादशाब्दमतप्यत ॥ ३५ तस्मिन्सरोवरे रम्ये ह्यगाधे निर्मलाम्भसि । मत्स्यः साममदो नाम्ना मत्स्ययूथसमावृतः ।। ३६ सर्वेषामेव मत्स्यानामग्रणीरञ्चिताकृतिः । शरवेगगतिश्चञ्चत्केसरो नयनप्रियः || पुत्रैः पौत्रैर्नसृभिश्च भार्याभिर्मित्रबान्धवैः । भ्रातृभिः पितृभिः सार्धमितश्चेतश्च धावति । तं दृष्ट्वा चिन्तयामास मत्स्येन्द्रं सौभरिर्मुनिः । अनेकदुहितृदौहित्रसंतत्या परिवारितः ।। अतीव रममाणोऽसावुत्पादयति नः स्पृहाम् । भार्यादुहितृदौहित्रपुत्रपौत्रैश्च नप्तृभिः ॥ विहराम वयं चैवमिति कृत्वा मतिं मुनिः । उत्थितः सलिलात्तस्मान्मुनिर्विकटवेषभृत् ॥ निवेष्टुकामः कन्यार्थ मांधातारमुपागमत् । ऋषेरभ्यागमं श्रुत्वा समुत्थायाssसनान्नृपः ॥ ४२ अर्ध्यादिभिः समभ्यर्च्य कल्पयामास चाssसनम् । आसने सम्यगासीनो नृपं सौभरिरब्रवीत् ।।
३८
३९
४०
४१
सौभरिरुवाच—
१७२३
३१
३२
निवेष्टुकामोऽस्मि नरेन्द्र कन्याः प्रयच्छ मे मा प्रणयं ह्यभाक्षीः । न ह्यर्थिनः कार्यवशादुपेताः काकुत्स्थवंशे विमुखाः प्रयान्ति ॥ शतार्धकन्यास्तव सन्ति सौम्यास्तासां ममैकां नृपते प्रयच्छ ॥ वसिष्ठ उवाच
इति श्रुत्वा ऋषेर्वाक्यं मांधाता मनुनन्दनः । झर्झरीकृतसर्वाङ्गं विलोक्य विकटाकृतिम् ॥ ४५ प्रत्यादेशभयात्तस्माच्छापभीत्या च पार्थिवः । सान्त्वपूर्वमिदं वाक्यमुवाच विनयानतः ॥ ४६
४४