________________
१७१८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेवसिष्ठ उवाचनारदस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तथा । महर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ २९
श्रीराम उवाचगच्छ सौम्य द्विजश्रेष्ठं समाधासय लक्ष्मण । वालस्य च शरीरं तु तैलट्रोण्यां निधापय ॥ यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥
वसिष्ठ उवाचएवं संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् । मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥३१ आजगाम मुहूर्तेन समीपं राघवस्य तत् । अभिवाद्य महर्षीस्ताविमानं सोऽध्यरोहत ॥ ३२ धनुर्गृहीत्वा तूणीं च खडं च रुचिरप्रभम् । प्रायात्मतीची विमलां विचिन्वंश्च समन्ततः ॥ ३३ उत्तरामगमद्धीमान्दिशं हिमवता वृताम् । अपश्यमानस्तत्रापि न स्वल्पमपि दुष्कृतम् ॥ ३४ पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः । प्रविशुद्धसमाचारामादर्शमिव निर्मलाम् ॥ ३५ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः। स शैलस्योत्तरे पार्चे ददर्श सुमहत्सरः॥ ३६ तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः। ददर्श राघवः श्रीमाल्लम्बमानमधोमुखम् ॥ ३७ राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् । उवाच च नृपो वाक्यं धन्यस्त्वमिति सुव्रत ॥ ३८ ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः। वैश्यो वा यदि वा शूद्रः सत्यमेतद्रवीहि मे।। कौतूहलात्त्वां पृच्छामि रामो दाशरथिहम् ।।
वसिष्ठ उवाचतस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ॥ ४१
तपस्व्युवाचशूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः । देवत्वं प्रार्थये राम सशरीरो महायशः ॥ ४२
वसिष्ठ उवाचभाषतस्तस्य शूद्रस्य ख स रुचिरमभम् । विकृष्य [*कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४३ ।। तस्मिद्रे हते देवाः सेन्द्राः सामिपुरोगमाः। साधु साध्विति] काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः॥४४ मुप्रीताश्चाभवन्देवा रामं सत्यपराक्रमम् । सुरकार्यमिदं राम सुकृतं ते महामते ॥ ४५ गृहाण त्वं वरं राम यत्त्वमिच्छस्यरिंदम । देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ॥ उवाच प्राञ्जलिर्वाक्यं सहस्राक्षपुरोगमान् ॥
श्रीराम उवाचयदि देवाः प्रसन्ना मे द्विनपुत्रः स जीवतु । दिशन्तु वरमेतं म ईप्सितं परमं मम ॥ ४७
वसिष्ठ उवाचराघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्यूचू राघवं प्रीता देवाः शक्रपुरोगमाः ॥ ४८
देवा ऊचुःयस्मिन्मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः । तस्मिन्मुहूर्ते विमोऽसौ जीवेन समयुज्यत ॥ ४९ - स्वस्ति प्रामुहि भद्रं ते साधयामो नरर्षभ ।
५०
* धनुचिहान्तर्गतः पाठः, ठ. पुस्तकस्थः ।