________________
-
१७१६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेकिमत्र हाहाकारेण युष्माकमधुना हरिम् । स्मरताहर्निशं विष्णुमशेषदुरितापहम् ॥ ६४ अहमप्यत्र नामानि कीर्तयामि जगत्पतेः । तानि वः श्रेयसे नित्यं भविष्यन्ति न संशयः ॥६५
नारका ऊचुःआत्मपापेन तप्तानामस्माकमकृतात्मनाम् । तवाङ्गस्पर्शसंभूतो वायुरालादयत्यलम् ॥ ६६ अत्र संस्थीयतां ब्रह्मन्क्षणमप्यद्य नः सुखम् । यथा भवति धर्मात्मन्दुःखाभिहतचेतसाम् ॥ ६७ दर्शनेनापि ते ब्रह्मन्संजाता तुष्टिरब नः । अहो दया तव ब्रह्मन्पापेष्वपि हि जायते ॥ ६८
यम उवाचगच्छ पुष्कर धर्मज्ञ दृष्टाश्च नरकास्त्वया । रोरूयते हि ते भार्या दुःखशोकपरिष्टुता ॥ ६९
पुष्कर उवाचकथं गच्छामि भगवनगते वा तत्र किं सुखम् । शृण्वतः शृणु वाचोऽत्र नारकाणामहर्निशम् ॥७० किंकरैर्हन्यमानानां पततामनिसंचये । रक्ष मां रक्ष रक्षेति केषांचिच्छ्रयते ध्वनिः ॥ ७१ यथा समस्तभूतात्मा विष्णुः सर्वेश्वरो हरिः। आराध्यते मया नित्यं तेन मुश्चन्तु नारकाः॥७२ यथा सर्वगतो विष्णुः सर्व विष्णौ प्रतिष्ठितम् । तथा तेनाद्य सत्येन सद्यो मुच्यन्तु नारकाः७३ कृष्णाच्युन जगन्नाथ हरे विष्णो जनार्दन । पाहि सर्वानिमानत्र नरके यातनागतान् ॥ ७४
वसिष्ठ उवाचश्रुत्वा नामानि तत्रस्थास्तेनोक्तानि हरेप । नारका नरकान्मुक्तास्तत्क्षणादेव पार्थिव ॥ ७५ ऊचुश्च पुष्करं प्रीत्या यतो मुक्तास्ततो वयम् । तस्मात्ते कीर्तिरतुला लोके विस्तारमृच्छतु ॥७६ यमोऽपि विस्मयाविष्टः पुष्करं प्राप्य पार्थिव । वरेण च्छन्दयामास जीवितेशः प्रहृष्टधीः ॥ ७७
यम उवाचमेदिनीं प्राप्य धर्मात्मस्तिष्ठ तत्रापि सर्वदा । न विद्यते भयं मत्तः सुहृदामपि ते द्विज ॥ ७८ माहात्म्यं तव योऽप्यत्र नित्यं स्मरति मानवः । अपमृत्युभयं तस्य मत्मसादान जायते ॥ ७९
वसिष्ठ उवाचउक्तो वैवस्वतेनैवं पुष्करो भुवमेत्य सः । समास्ते पूर्ववत्स्वस्थः पूजयन्मधुसूदनम् ॥ ८० एतन्मयोपदिष्टं ते पुष्करस्य महात्मनः । माहात्म्यं संश्रुतं यैस्तु सर्वपापक्षयो भवेत् ॥ ८१ मुक्तिश्च नरकाद्विष्णोर्नामसंकीर्तनादिह । यथा हि जायते विद्वंस्तथोक्ता च तवानघ ।।
स्वल्पाऽपि नामस्मृतिरादिपुंसः क्षयं करोत्याहितपापराशेः। प्रत्यक्षतः किं पुनरत्र दृष्टं संकीर्तिते नाम्नि जनार्दनस्य । इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पुष्कराख्यानं
नामैकोनत्रिंशदधिकदिशततमोऽध्यायः ।। २२९ ॥ (११)
आदितः श्लोकानां समष्ट्यङ्काः-४३१६७
अथ त्रिंशदधिकद्विशततमोऽध्यायः ।
वसिष्ठ उवाचशृणु दिजकुमारस्य रामराष्ट्र निवासिनः । पुनरागमनं तस्य यमलोकारवीमि ते ॥
१