________________
--
-
२८
२२९ एकोनत्रिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७१५ - पुष्कर उवाचभगवन्नरकान्सन्द्रिष्टुमिच्छामि तानहम् । पापिनो येऽपि पच्यन्ते यातनादेहमास्थिताः॥ ३६
वसिष्ठ उवाचततो वैवस्वतस्तस्मै पुष्कराय महात्मने । नरकान्दर्शयामास शतशोऽथ सहस्रशः॥ रौरवं रौद्रमत्यर्थ महारौरवमेव च । श्वभोजनं विशसनं क्षारकर्दममेव च ॥ असिपत्रवनं घोरं तप्तकुम्भं भयानकम् । क्रिमिशं क्रिमिभक्षं च तथा वैतरणी नदीम् ॥ ३९ करम्भवालुकं चैव लालाभक्षमवीचित(क)म् । सूकरं रोधनं चैव तप्तवालुकमेव च ॥ ४० एतेषु नरकेष्वेव पच्यन्ते पापिनोऽनिशम् । तत्र तान्पतितान्दृष्ट्वा पीड्यमानान्स नारकान् ॥ ४१ शूलोपरि गतान्व्याघेर्भक्ष्यमाणान्सुदुःखितान् । करम्भवालुके तप्तान्क्रिमिभिर्भक्षितानपि ॥ ४२ तप्तकुम्भे निपतितान्क्रिमिभिस्तु प्रपीडितान् । असिपत्रवने छन्नान्क्रकचैर्दारितानपि ॥ ४३ कुठारैः पाठ्यमानांश्च संक्लिनान्क्षारकर्दमे । सूच्या निपात्यमानांश्च तथा शिशिरपीडितान् ॥४४ एतानन्यांश्च तत्रस्थान्नारकान्यातनागतात् । दृष्ट्वाऽतिदुःखितो भूत्वा पुष्करस्तानुवाच ह ॥ ४५
पुष्कर उवाचकिं न तत्र कृतं पुण्यं भवद्भिः पूर्वजन्मनि । तेनात्र यातनासंस्था दुःखिता नित्यमास्थिताः॥४६
नारका ऊचु:नास्माभिः सुकृतं किंचित्कृतं तत्र महीतले । तेनात्र यातनासंस्था दह्यामो दुःखिता भृशम् ॥४७ परदारेषु निरताः परद्रव्यापहारिणः । परहिंसारता नित्यं दह्यामस्तेन वै वयम् ॥ ४८ परीवादाः *कृतास्माभिः परेषां नापराधिनाम् । निन्दिताश्च तथा विप्रा दह्यामस्तेन वै वयम् ॥ तत्रा(थाs)र्थहेतोरस्माभिः कृतमध्यापनं द्विज । तथैवाध्ययनं तेन दह्यामो नरके वयम् ॥ ५० भृत्यवर्गेष्वभुक्तेषु भुक्तमस्माभिरादरात् । अन्नमग्रे तथा मृष्टं तेन दह्यामहे वयम् ॥ ५१ माये सर्वेषु मज्जत्सु न वयं कृतमजनाः। किंचिदभ्युदिते सूर्ये दह्यामस्तेन वै वयम् ॥ ५२ +पृथक्पाकरता नित्यं नित्यं चाद्भुतवह्नयः । अस्त्रानभोजिनो जाता दह्यामो नरके वयम् ॥ ५३ गोकुलस्य तृषार्तस्य धावतो जलसंमुखम् । विन आचरितो नित्यं दह्यामस्तेन वै वयम् ॥ ५४ गवां ग्रासमदत्त्वा तु तत्क्षीरादानतत्पराः । जाताः स्वपोषणरता दह्यामस्तेन वै वयम् ॥ ५५ *दानेष्वभिरतं नित्यमर्थिभ्यो धार्मिक प्रति । विघ्र आचरितस्तेन नूनं दह्यामहे वयम् ॥ ५६ त्यक्तदारा व्रतभ्रष्टाः परान्नरुचयस्तथा । पर्वस्वपि रताः स्त्रीषु तेन दह्यामहे वयम् ॥ ५७ ब्राह्मणेभ्यः प्रतिश्रुत्य न दत्तं लोभकारणात् । अस्माभिस्तेन दोषेण दह्यामोऽत्र भृशं द्विज ॥५८ निक्षेपहारिणो जातास्तथा मित्रद्रुहो वयम् । कूटसाक्षि गतास्तेन दह्यामोऽत्र वयं द्विज ।। ५९ तब किं बहुनोक्तेन यच्चास्माभिरनुष्ठितम् । पातकं द्विजवर्येह दह्यामस्तेन वै वयम् ॥ ६०
पुष्कर उवाचसकृच्च नार्चितो देवो भवद्भिः किं जनार्दनः । तत्तेनादृशीं प्राप्ता दशां यूयं भयानकाम् ॥६१ समस्तलोकनाथो यैरर्चितः पुरुषोत्तमः । तेषां मुक्तिरपीह स्यात्किमु पापक्षयो नृणाम् ॥ ६२ प्रणतिर्न कृता प्रायो भवद्भिः पुरुषोत्तमे । तेन यूयमिदं प्राप्ता नरकं भृशदारुणम् ॥ ६३
* संबिरार्षः । + अयं श्लोकश्पस्तकस्थः । * अयं श्लोक छाम्तकस्थः ।