________________
१७१४
महामुनिश्रीव्यासप्रणीतं- __ [ ६ उत्तरखण्डेकलौ शरीरं मर्त्यानां तिष्ठत्यापादमण्डलम् । चतुर्गुगा कृते बुद्धिस्त्रेतायां त्रिगुणा स्मृता ॥ ६ . द्वापरे द्विगुणा चैव कलावेकगुणा स्मृता । द्वादशाहात्परं मा गच्छन्ति यमसादनम् ॥ ७ इतीरितं तु यत्सद्भिः पापिनामेव तन्नृप । इदं च शृणु राजेन्द्र गुह्याद्रुह्यं ब्रवीमि ते ॥ ८. यथा यमभटाः शीघ्रं गच्छन्त्यायान्ति वायुवत् । ईश्वरानुग्रहादेवं गच्छन्त्यायान्ति केचन ॥ ९ यमस्यानुग्रहादेताः कन्या यमनिकेतनम् । नरकान्यातनास्तत्र दृष्ट्वा च पुनरागताः॥ १० मासमासां शरीराणि रक्षितानि खमाताभिः । तदा कृतयुगस्तस्माच्छरीराणि स्थिराणि च॥११ दोषोऽलंकरणात्पूर्व प्रेतस्य हि न विद्यते । प्रेतालंकरणादूर्व शवस्पृष्टिविधीयते ॥ १२ माघस्नानोपवासादिमहापुण्यकृतो नराः । एवं गच्छन्ति चाऽऽयान्ति पुण्यं सर्वत्र कारणम्॥१३ पुष्करो नाम विप्रेन्द्रः पुरा गत्वा यमालयम् । +उत्थापयित्वा नरकानरान्नारकिनो बहून् ॥१४ आगत्य पुनरत्रेव खगृहे पूर्ववत्स्थितः । त्रेतायुगे कदाचित्तु रामे राज्यं प्रशासति ।। १५ । द्विजस्य कस्यचित्पुत्रो मृतो गत्वा यमालयम् । पुनर्जिजीव पृथुकः किमेतन श्रुतं त्वया ॥ १६ देवकीतनयः कृष्णो गुरोः सांदीपनेः सुतम् । ग्राहग्रस्तं चिरागृह्य पुनः स गुरवे ददौ ॥ १७ एवमन्ये जनाः केचिद्यमलोकात्समागताः । संशयोऽत्र न कर्तव्यः किं भूयः श्रोतुमिच्छसि॥१८
दिलीप उवाचपुष्करो नाम विप्रेन्द्रः कुत्रत्यः कथमागतः । उत्तारिताः कथं तेन नरकेभ्योऽपि पापिनः ॥ १९ रामराज्ये द्विजसुतः किं मृतः कथमागतः । भगवान्देवकीपुत्रो गुरोः सांदीपनेः सुतम् ॥ २० गीर्ण ग्राहोदरे बालमानयामास वै कथम् । [*विस्तराच्छोतुमिच्छामि वसिष्ठारुन्धतीपते ॥ २१ एतत्पश्नत्रयं सम्यग्ब्रूहि मे ब्रह्मनन्दन ॥
२२ वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि पुष्करस्य महात्मनः । चरितं सर्वपापघ्नं शृणोत्ववहितो भवान् ॥ २३ नन्दिग्रामे वसन्धीमान्पुष्करो नाम वै द्विजः । निजानुष्ठानकृद्धीमान्सर्वभूतहिते रतः ॥ २४ माघस्नानरतो नित्यं नित्यं स्वाध्यायतत्परः । विष्णोराराधनं काले स कुर्वन्नान्यमानसः ।। २५ आस्ते तत्र महायोगी सकुटुम्बोऽग्निहोत्रकृत् । अप्रमेय हरे विष्णो कृष्ण दामोदराच्युत ।। २६ । गोविन्दानन्त देवेशेत्याहासौ केवलं नृप । देवताराधनं त्यक्त्वा तस्य विप्रस्य नित्यशः ॥ २७ नान्येषु रमते चित्तं स्वमेष्वपि महामते । अथ वैवस्वतो राजा प्राह दृतान्भयंकरान् ॥ २८ गत्वैनं पुष्करं विप्रं नन्दिग्रामनिवासिनम् । समानयध्वमित्याह तेऽपि ग(श्रुत्वा भुवं गताः २९ प्रगृह्य तमजानन्तो यमलोकं गता नृप । तमायान्तं यमो दृष्ट्वा पुष्करं भीतमानसः॥ ३० प्रत्युत्थायाऽऽसनं गृह्य प्रवेश्य स्वासने मुनिम् । भर्सयामास दूतांश्च भवद्भिः किमनुष्ठितम्।।३१ तत्रान्यः पुष्करो नाम तं प्रत्युक्तं मया भटाः । किमयं सर्वधर्मज्ञो विष्णुभक्तो विशेषतः ॥ ३२ माघम्नानरतो नित्यमुपवासपरायणः । मत्समीपमिहाऽऽनीतो भवद्भिः पापचेतनैः॥ ३३
वसिष्ठ उवाचतानेवं भयित्वाऽथ प्रेतराजस्तमब्रवीत् ॥ .
यम उवाच - पुत्रदारादयः सर्वे रुदन्ति भृशमाकुलाः । गच्छ त्वमपि सोऽप्याह पुष्करस्तं दृकोदरम् ॥ २५
+ ल्यबभाव आर्षः । * धनुचिहान्तर्गतः पाटः, छ. पुस्तकम्थः ।