________________
२२९ एकोनत्रिंशदधिकद्विशततमोऽध्यायः]पद्मपुराणम् ।
१७१३ शरीरं रोगनिलयं मलायैरपि दूषितम् । किमर्थ शाश्वतधिया पापं कुरुत मातरः॥ ३० असारभूते संसारे नानादुःखसमन्विते । विश्वासो नोपगन्तव्यो निश्चयं नाशमेष्यथ ॥ ३१ शृणुध्वं बान्धवाः सर्वे सत्यमस्माभिरुच्यते । कायः संनिहितापायः पूज्य एव जनार्दनः॥ ३२ यजध्वं सततं विष्णुं मानुष्यमतिदुर्लभम् । कोटिजन्मसहस्रेषु स्थावरादिषु बान्धवाः ॥ ३३ संभ्रान्तस्य तु मानुष्यं कथंचित्परिलभ्यते । तत्रापि देवताबुद्धिर्दानबुद्धिश्च मातरः॥ ३४ योगबुद्धिस्तथा चैव दुर्लभाश्चैव मातरः । दुर्लभं मानुषं प्राप्य यो हरिं नाचेयेत्सकृत् ॥ ३५ आत्मानमात्मना हन्ति कोऽन्यस्तस्मादचेतनः । दम्भाचारं परित्यज्य यजध्वं चक्रपाणिनम् ३६ भूयो भूयो हितं ब्रूमो भुजमुद्धत्य भक्तितः। विष्णुः सर्वात्मना पूज्यस्त्याज्याऽसूया तथा नृभिः अनाराध्य जगन्नाथं सर्वधातारमच्युतम् । संसारसागरे मनाः कथं पारं गमिष्यथ ॥ ३८
[कन्या ऊचुः]बहुनाऽत्र किमुक्तेन मातरः श्रूयतामिदम् । किं वेदैः किं तपोभिर्वा किं यज्ञैरुक्तदक्षिणैः ।। ३९ अहन्यहनि गोविन्दं तन्मयत्वेन शृण्वताम् । किं पुत्रदारैः किं कृत्यैः किं गृहक्षेत्रवान्धवैः॥ ४० अहन्यहनि गोविन्दकीर्तनं परिशृण्वताम् । तस्मायूयं भयं त्यक्त्वा कुरुध्वं केशवार्चनम् ॥ ४१ पिबध्वममलं शुद्धं शालग्रामशिलाजलम् । कुरुध्वमुपवासं च वासरेषु मधुष्टुहः॥ ४२ स्नानं कुरुध्वमनिशं मकरस्थे दिवाकरे । कुरुध्वं भर्तृसेवां च भीतिस्त्याज्या सुदूरतः ॥ ४३ एकादशी तिथिः पुण्या सर्वपापप्रणाशिनी । पक्षे पक्षे समायाति किं नु वो नरकाद्भयम् ॥ ४४ पुण्यदायी पुनर्माधो बहिस्तोये निमज्जनात् । वर्षे वर्षे समायाति किं नु वो नरकाद्भयम् ॥ ४५
वसिष्ठ उवाचएतावदुक्त्वा मातणां कन्यास्ताः पुनरेव हि । माघस्नानोपवासादिधर्मदानानि चक्रिरे ॥ ४६ एतावदूचुर्मातॄणां कन्याः कमललोचनाः । यमलोकस्य माहात्म्यं तन्मया वणितं तव ॥ ४७
माघमासकृतमजनो नरः पारिजातकुसुमैरलंकृतः।। अप्सर कुचतटीनिपीडितः क्रीडति त्रिदशनन्दने वने ।।
• १८ इति श्रीमहापुराणे पाद्य उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे धर्मप्रशंमाकथनं
नामाष्टाविंशत्यधिकद्विशततमोऽध्यायः ।। २२८॥ (१०) आदितः श्लोकानां समष्ट्यङ्काः-४३०८४
अर्थकोनत्रिंशदधिकद्विशततमोऽध्यायः ।
दिलीप उवाचपडशीतिसहस्राणि योजनानामतीत्य तत् । वैवस्वतपुरं झेयं नानारूपमवस्थितम् ॥ तत्रताभिः कतिदिनैर्गतमागतमप्यथ । शरीरमासां कन्यानामतिष्ठत्कथमत्रणम् ॥ भगवन्मुनिशार्दूल वद निःसंशयं मम ॥
वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि गुह्यमेतन्महामते । आमण्डलं कृतयुगे शरीरं नावसीदति ॥ पादोनमण्डलं त्रेतायुगे तिष्ठति तद्वपुः । अर्धमण्डलपर्यन्तं तिष्ठति द्वापर युगे ।
+ इदमधिकम् । २१५