SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ १७०८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेविशेषेण विराजन्ते माघस्नानरतात्मनाम् । विमानान्यपि चित्राणि शतशोऽथ सहस्रशः॥ ३८ एवं सुकृतिभिः पूर्णा राजधानी यमस्य सा । एतान्सुकृतिनो दृष्ट्वा विमानस्थानिनात्मजः ॥३९ प्रत्युद्ययौ गणैः सार्धं समुत्थाय निजासनात् । कृताञ्जलिपुटस्तेषां सपर्यामकरोद्यमः॥ ४० स्वागतासनदानेन पादायेण पियेण च । धन्या यूयं महात्मानः स्वात्मनो हितकारिणः ॥४१ येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् । इदं विमानमारुह्य दिव्यस्त्रीभोगभूपितम् ॥ ४२ स्वर्ग गच्छध्वमतुलं सर्वकामसमन्वितम् । इति तेनाभ्यनुज्ञाताः स्वर्गलोकं प्रयान्ति ते ॥ ४३ ये तु प्रयागे मज्जन्ति माघमेकं नरोत्तमाः। ते ब्रह्मलोकं गच्छन्ति ऋजुमार्गेण शोभनम् ॥ ४४ माघमास्युषसि स्नात्वा परिपावनमूर्तयः। विष्णुधर्मरताः शान्ता विषयेषु पराङ्मुखाः॥ ४५ ते विष्णुलोकं गच्छन्ति ऋजुमार्गेण शोभनम् । किंचिदभ्युदिते सूर्ये माघमासे निमज्य च ॥४६ शिवधर्मरताः शिष्टाः शतरुद्रीयजापकाः। ते शंभुलोकं गच्छन्ति ऋजुमार्गेण शोभनम् ॥ ४७ अन्ये सुकृतिनः सर्वे विमानेन यमान्तिकम् । गत्वा तेनाभ्यनुज्ञाता गच्छन्ति त्रिदिवं ततः॥४८ अन्ये सुकृतिनः सन्ति विमानस्थाः सहस्रशः। संयमन्याः प्रदेशे तु तान्न विद्योऽत्र वर्णितुम् ४९ उद्यानमध्ये कदलीवनमध्ये स्थिता वयम् । एतान्सुकृतिनो दृष्ट्वा वयं धन्या हि मातरः॥ ५० नेत्रसाफल्यमस्माकं जन्मसाफल्यमप्यभून् । एतान्सुकृतिनो दृष्ट्वा वयं धन्या हि बान्धवाः॥५१ माघस्नानप्रभावेन वयं तत्र निरामयाः । एतान्सुकृतिनो दृष्ट्वा वयं धन्याः स्म हे जनाः ॥ ५२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे संयमनीवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ २२६ ॥ (८) आदितः श्लोकानां समष्ट्यङ्काः-४२९३७ अथ सप्तविंशत्यधिकद्विशततमोऽध्यायः । कन्या ऊचुःतत्र ये पापकर्माणस्तेषां दुःखं बवामहै । मातरो बान्धवाः सर्वे शणुध्वं धैर्यमास्थिताः॥ १। तत्र ये क्रूरकर्माणः पापा दानविवर्जिताः । ते घोरेण पथा यान्ति दक्षिणेन यमालयम् ॥ २ षडशीतिसहस्राणि योजनानि समन्ततः । वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ३ समीपमिव चाऽऽभाति नराणां पुण्यकर्मणाम् । पापानामतिदूरस्थं पथा रौद्रेण गच्छताम् ॥ ४ तीव्रकण्टकयुक्तेन शर्करानिचितेन च । क्षुरधारानिभैस्तीत्रैः पाषाणैर्निचितेन च ॥ कचित्पङ्केन महता अङ्कुरैश्चैव घातकैः । लोहमूचिनिभैदर्भः संछन्नेन तथा कचित् ॥ तटमपातविषमैः पर्वतैर्वृक्षसंकुलैः । प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः॥ कचिद्विषमगर्तेश्च कचिल्लोष्टैश्च पिच्छिलैः। सुतप्तवालुकाभिश्च पथा तीक्ष्णैश्च शङ्कभिः ॥ अनेकशाखाविततैाप्तं वनशतैरपि । कष्टेन तमसा मार्गमनालम्बेन कुत्रचित् ॥ अयःशृङ्गाटकैस्तप्तः कजिदावाग्निना पुनः। कचित्तप्तशिलाभिश्च कचिद्व्याप्तं हिमेन च ॥ १० कचिद्वालुकया व्याप्तमाकर्णान्तमवेशया । कचिदुष्णाम्बुना व्याप्तं कचित्कारीपवह्निना॥ ११ सिंहगैश्च शार्दूलेर्दशग्रीवैश्च दारुणैः । कचिन्महाजलुकाभिः कचिच्चाजगरैः पुनः॥ १२ मक्षिकाभिश्च रौद्राभिः कचित्मविषोल्वणः । मत्तमातङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः॥ १३ rr" sw, vo
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy