________________
१५ पञ्चदशोऽध्यायः ] पद्मपुराणम् ।
१२६९ वृन्दारिकानुरागेण मोहितो मधुसूदनः । दृष्ट्वा हारे तु गच्छन्तं प्रतिच्छन्नं युधिष्ठिर ॥ २५ शेषोऽप्यन्यतमेनासौ रूपेणाऽऽगत्य केशवम् । जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि ॥ २६ किं करोमि क गच्छामि ब्रूहि कार्य जनार्दन । सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् ॥
श्रीभगवानुवाचजालंधरस्त्रियं रम्यां हरिष्ये हरकारणात् । पार्वत्याश्योपकाराय संछाद्य स्वात्मनस्तनुम् ॥ २८ एहि यामो वयं बन्धो कान्तारं दुरतिक्रमम् । वृन्दाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ २९ ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ ॥ आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ॥ ३० तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः । सिंहव्याघ्रवराहाच ऋक्षवानरमर्कटाः॥ ३१ अथ तस्मिन्वने वृन्दां मत्रेणाऽऽकर्षयद्धरिः। तस्या हृदयसंतापं चकार मधुसूदनः ॥ ३२ एतस्मिन्नन्तरे राज्ञी तापमुग्रमुपागता । चामरांवालयामास दिव्यस्त्रीकरचालितान् ॥ प्रियस्याऽऽगमनं तन्वी चिन्तयन्ती मुहुमुहुः। चन्दनागुरुलिप्ताङ्गी मूछो याति हि सत्वरम्॥ ३४ तुर्ययामे विभावाश्चतुर्दश्यां नृपाङ्गना। स्वनं ददशे भयदं वैधव्यमयसूचकम् ।। जालंधरशिरः शुष्कं मर्दितं पाण्डुभस्मना । गृध्रेणाऽऽकृष्टनयनं छिन्नकर्णाग्रनासिकम् ॥ ३६ मुक्तकेशी करालास्या कृष्णवर्णाऽरुणाम्बरा । चखाद काली रक्तास्या हस्ते विधृतखर्परा॥ ३७ ईदृशं ददृशे स्वमं तथाऽऽत्मानं विडम्बितम् । दैत्यक्षयगुणोपेतं सा ददर्श नृपाङ्गना ॥ ३८
ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम् ॥
गेयप्रबन्धैः स्तवनैर्वचोभिर्वशस्तवैः किंपुरुषप्रपाठितैः ॥ ततस्तान्सकलाञ्श्रान्तान्धनं दत्त्वा प्रसादजम् । निवार्य विभानाहूय स्वमं दृष्टं न्यवेदयत् ॥ ४० तं स्वमं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः॥
द्विजा ऊचुःदेवि दुःस्वममत्युग्रमचिन्त्यभयदायकम् । देहि दानं द्विजातिभ्यो वचिन्त्यभयनाशकम् ॥ ४२ धेनूर्वासांसि रत्नानि गजांचाऽऽभरणानि च । . नारद उवाचब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ।। अभिषिक्ताऽपि सा वृन्दा ज्वरेण परिताप्यते ।। विसृज्य विषप्रवरान्भासादमगमत्तदा । तत्र स्थिताऽपि स्वपुरं ददृशे दीप्तमङ्गना ॥ ४५ ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा । न शशाक गृहे स्थातुं ततो राशी वनं ययौ ॥४६ रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् । समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम् ॥ ४७ नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् । पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम् ॥ ४८ मन्दानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् । वनं वृन्दारिका दृष्ट्वा सस्मार पतिमात्मनः ४९ कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः । सा तत्र म सुखं लेभे विवेशान्यतमं वनम् ॥ ५० सखीरथसमायुक्ता विष्णुमायाविमोहिता । ततो विलोकयामास विपिनं तरुसंकुलम् ॥ ५१ उरुपाषाणसंरुद्धं कुरङ्गाक्षीभयावहम् । सिंहव्याघ्रभयाकीर्ण शृगालव्यालसेवितम् ॥ ५२ द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वान्तपूरितम् । वनं विलोक्य सा भीमं चकिता चपलेक्षणा ५३
३९
१फ.म् । गद्य