________________
१२७०
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
स्मरदूतीं सखीं वृन्दा जगाद रथवाहिनीम् । रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ॥ ५४
स्मरदूतिरुवाच -
नाहं जानामि दिग्भागं नयामि क रथं सखि । श्रान्ता अश्वाः प्रवर्तन्ते मार्गश्चात्र न विद्यते ५५ प्रेरितो दैवकेनापि स्यन्दनो यातु यत्र च । अत्र कोऽपि च मांसादो भक्षयिष्यति नान्यथा ५६
नारद उवाच -
इत्युक्त्वा सा द्रुततरा रथं शीघ्रमवाहयत् । स रथो वेगतः प्राप्तो यत्र सिद्धा मुदाऽन्विताः ५७ तत्र सिद्धाश्च दृश्यन्ते काननं च भयावहम् । न यत्र प्रवलो वायुर्न शब्दः पक्षिणामपि ।। ५८ न च तेजःप्रकाशोऽस्ति न जलं प्रदिशो दिशः । तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ॥ ५९ अश्वतर्यो न षन्ते न च शब्दश्व नेमिजः । न चलन्ति पताकाश्च घण्टिका न कणन्ति च ६० न स्वनन्ति महाघण्टा ध्वजस्तम्भे निवेशिताः । विलोक्यैवंविधं प्राह तत्र वृन्दा सखीं प्रति ६१ वृन्दोवाच
स्मरदूति क यास्यामो व्याघ्रसिंहभयं वनम् । न गृहे न सुखं राज्ये मम जातं वने सखि || ६२ स्मरदूतिरुवाच -
शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः । दृष्ट्वाऽग्रतो न गच्छन्ति तुरंग्यो भयविह्वलाः ६३
नारद उवाच --
तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपाङ्गना । दृष्ट्वा हारं स्वकण्ठस्थं स्यन्दनाच्छीघ्रमुत्थिता ॥६४ एतस्मिन्नन्तरे प्राप्तो राक्षसो भीषणाकृतिः । त्रिपादः पञ्चहस्तश्च सप्तनेत्रोऽतिदारुणः ॥ ६५ पिङ्गलो व्याघ्रकर्णश्च सिंहस्कन्धस्तथाननः । विहंगेशसमाः केशा लम्बन्ते रुधिरारुणाः ॥ ६६ तं दृष्ट्वा पद्मकोशाङ्गी सहसा सभयाऽभवत् । नेत्रे कराभ्यामाच्छाद्य चकम्पे कदलीव सा ।। ६७ प्रतीहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत । भीता मां त्राहि देवि त्वमयं धावति भक्षितुम् ॥ ६८ एतस्मिन्नन्तरे प्राप्तो राक्षसो रथसंनिधौ । रथमुत्क्षिप्य हस्तेनाभ्रामयच्चाश्विनीयुतम् ॥ ६९ सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव । स्मरदूती तरोर्मूले छिन्नाऽशोकलता यथा ॥ ७० ततस्ताश्चाश्विनीः सर्वा भक्षयामास राक्षसः । तेन राज्ञी धृता हस्ते सिंहेनेभवधूरिव ॥ ७१ तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि । तव भर्ता हतः संख्ये हरेणेति श्रुतं मया ॥ मामासाद्याद्य भर्तारं चिरं जीवाकुतोभया । पिवाथ वारुणीं स्वाद्वीं महामांससमन्विताम् ॥ शृण्वतीति वचो राज्ञी गतसत्त्वा इवाभवत् ।।
७२
७३
इति श्रीमहापुराणे पाद्म उत्तरखण्डे जालंधरोपाख्याने श्रीमन्माधवमायाकथनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ आदितः श्लोकानां समश्यङ्काः – ३२४८१
अथ षोडशोऽध्यायः ।
नारद उवाच
नारायणस्तदा देवो जटावल्कलधार्यथ । द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् ॥ तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा । तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ ॥ २
१
1