________________
२१८ अष्टादशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादकौ वा । वृन्दारकैर्वन्दितपादपद्मौ सद्भावनम्रण नमामि मूर्धा ॥ गोविन्दवृन्दारकवन्द्यपाद न कोऽपि जानाति तव स्वरूपम् । यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ॥ धन्यः स लोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिन्त्य ।
अनन्यचेता भजति त्वदीयं पादारविन्दं मुनिन्दवन्द्यम् ॥ त्वत्पादसेवनं नाम तीर्थमेतच दुर्लभम् । जनानां भजमानानां वाञ्छितार्थफलप्रदम् ॥ ३९ तथाऽप्येतद्वयं सेव्यं मुक्तये नान्यलब्धये । अन्यकामनया यस्तु सेवते स तु वञ्चितः ॥ ४० सन्तो भवन्तमासेव्य तीर्थमेतच्च मुक्तिदम् । नान्यदिच्छन्त्यतिक्रम्य सर्वलोकान्यियासवः ॥४१
श्रीनारद उवाचइत्यभिष्ट्रय देवेश लोकेशं स च भूपतिः । तस्थौ यदा तदा राजन्हेमाङ्गी सा जगाद ह ॥ ४२ हेमाङ्गयुवाच
पद्मापते पद्मपलाशलोचन ब्रह्मन्मरालासन भारतीगुरो।
नमो युवाभ्यां यदि दीनचेतसौ प्रसीदतं तारयतं भवाब्धेः ॥ ४३ तीर्थस्यास्य प्रसादेन जाताऽहं महिषी प्रभो । युवयोर्दर्शनं जातं देवानामपि दुर्लभम् ॥ ४४ युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम् । स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ।।४५
श्रीनारद उवाचएवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौ । प्रसन्नवदनौ भूत्वा पोचतुर्दपती प्रति ॥ ४६
हरिब्रह्माणावूचतु:धन्या त्वमसि हेमाङ्गि यतोऽयं तारितः पतिः । स्वयं राज्यसुखासक्तचित्तोऽप्येतत्समागमात् ।। राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी । त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः॥ ४८
नारद उवाचइत्युक्त्वा तौ समारोह्य गरुडं पक्षिपुंगवम् । जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ॥ ४९ तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप । तस्य चित्तानुरोधेन तस्थुरेकं मुहुर्तकम् ॥ ५० अथ ताभ्यामुभाभ्यां स दंपतिभ्यां समं हरिः। आरुह्य गरुडं श्रीमद्वैकुण्ठमगमनृप ॥ ५१ इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम् । पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ॥ ५२ य एतच्छृणुयानित्यं पठेदपि च मानवः । स गच्छेद्वाञ्छितं स्थानं सत्यमेतन्मयोदिनम् ॥ ५३ इति श्रीमहापुराणे पाद्य उत्तरखण्डे कालिन्दीमाहात्म्य इन्द्रप्रस्थान्तर्गत प्रयागमाहात्म्यवर्णनं नाम
सप्तदशाधिकद्विशततमोऽध्यायः ॥ २१७ ।। (२३) आदितः श्लोकानां समष्ट्यङ्काः-४२३४१
अथाष्टादशाधिकद्विशततमोऽध्यायः ।
श्रीनारद उवाचआकर्णय शिबे राजन्वर्णयामि तवाग्रतः । पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् ॥ ?
१ क.ख. च. ज. न. द. त्वया । २ च. मुखदं ।