SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ l २१५ पञ्चदशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १६७७ ४५ वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते । अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम् ॥ तु तत्र समाविष्टः सार्थे जनसमाकुले । नीत्वा यदा धनं किंचित्स चौरस्तु पलायितः ॥ तमन्वधावन्सहसा क्रोशन्त इव सेवकाः ॥ ४६ सेवका ऊचु: गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम् । मध्याद्बहूनामस्माकमपहृत्य धनं बहु || भरत उवाच - ४८ 1 ५० ५१ इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम् । अधावं सहसा भ्रातस्तद्रहीतुं जिहीर्षया । ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम् । प्रजहुस्तरसा सर्वे सख खङ्गपाणयः ।। ४९ तेषु कश्चिद्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन् । खड़ेन शितधारेण मया पापीयसा हतः ॥ वणिज सेवकैस्तैस्तु खड्गधारैरहं हतः । गतास्ते वणिजः प्रातर्निजगन्तव्यनीहृतम् ॥ ततो भवानिह प्राप्तः श्वसन्तं मां ददर्श ह । चलद्बुधिरलिप्ताङ्गं पीडामोहविचेतनम् || इत्येतत्कथितं भ्रातर्यदर्थमहमागतः । अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये पुष्करमाहात्म्यवर्णनं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ॥ २१४ ॥ ( २० ) आदितः श्लोकानां समथ्र्यङ्काः – ४२१८३ ५२ ५३ अथ पञ्चदशाधिकद्विशततमोऽध्यायः । ४७ श्रीनारद उवाच - इत्याकर्ण्य वचस्तस्य पुण्डरीको महामनाः । उवाच निजबन्धुं तं शृण्वतां निजसङ्गिनाम् ॥ १ पुण्डरीक उवाच केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत् । यदि जानासि तद्ब्रूहि पापं विख्यातमेत्र ते ।। २ भरत उवाच - पुण्डरीकशृणुष्वेदं कथयामि तवाग्रतः । एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ॥ [*एकदा तु धनं जित्वा समागच्छन्निजं गृहम् । अपश्यं मृतकं वालं मृतस्यानाथमापणे ॥ ४ निधाय तमहं मूर्ध्नि नीत्वा गङ्गातटे शुभे ] । वस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम् ॥ द्यूतेन यज्जितं द्रव्यं तत्सर्वं व्ययितं मया । तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ॥ कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ।। श्रीनारद उवाच - संस्कारे विहिते राजन्भरतः पापवानपि । तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि ॥ मासमेकं यथा विष्णुः पुण्डरीकगृहे हरिः । उवासास्य प्रसादेन तीर्थस्य तदपि शृणु ॥ अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम् । दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ।। अत्रेति वाञ्छया सस्त्रौ पुण्डरीकः स पण्डितः । माघमासं स्वरूपेण हरिर्वसतु मे गृहे ! * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः । ७ ሪ ९ १०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy