SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २१४ चतुर्दशाधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १६७५ तत्र गत्वा स पत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान् । धर्मोपार्जितवित्तेन तोषयामास बान्धवान् ४३ भक्त्या परमया राजन्नाराध्य कमलापतिम् । तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुण्ठमामुयात् ॥४४ जनस्तत्फलमामोति शृण्वन्माहात्म्यमस्य तु । गोपीचन्दनदानेन ब्रह्मपत्रेषु भोजनात् ॥ ४५ यत्तत्फलं महिम्नोऽस्य श्रवणादेव कार्तिके । जागरेण च बोधिन्यां प्रहरे पश्चिमे नृप ।। ४६ यत्फलं तन्महिम्नोऽस्य तीर्थस्याऽऽकर्णनाद्भवेत् । हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै ॥ ४७ न तीर्थ पृथिवीलोके चतुर्वर्गफलप्रदम् ।। इति श्रीमहापुराणे पान उत्तरखण्डे कालिन्दीमाहात्म्ये हरिद्वारवर्णनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥ २१३ ॥ (१९) आदितः श्लोकानां समष्ट्यङ्काः-४२१३० ४८ अथ चतुर्दशाधिकद्विशततमोऽध्यायः । श्रीनारद उवाचभयः शृणु महाभाग माहात्म्यं परमाद्भुतम् । अत्र स्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम ॥ १ प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः । प्रसन्नः पुण्डरीकस्य मासमेकं गृहेऽवसत् ॥ अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि ॥ शिविरुवाचकः पुण्डरीको धर्मात्मा कृतं तेन च कर्म किम् । येन प्रसन्नो भगवांस्तगृहे मासमावसत् ॥ ३ कथं तदनुजः माप पापात्मा श्रीहरेः पदम् । तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने ॥ शृण्वतोऽस्य न संतोपो माहात्म्यं मम जायते ॥ श्रीनारद उवाचविदर्भनगरे राजन्मालवाख्यो महायशाः । ब्राह्मणो ब्रह्मविच्छान्तो विद्वान्विष्णुपरायणः ॥ ५ देवर्षिपितृभूतानां मनुष्याणां च पोषकः । विषयेषु न संसक्तो लोभमोहादिजितः ॥ स एकदा महाभाग सिंहमाप्ते बृहस्पतौ । गोदावरी महापुण्यां स्नातुं प्रातर्जगाम ह॥ दातुं तत्र सुवर्णस्य गृहानिन्ये पलायुतम् । गच्छन्पथि स धर्मात्मा मनसैतदचिन्तयत् ।। __ मालब उवाचगृहाहानार्थमानीतं मया हेमपलायुतम् । यस्मै कस्मै न दातव्यं दातव्यं पूज्यसाधये ॥ ९ निष्किंचनाय विप्राय पात्रायानुपकारिणे । पूज्याय देशकाले च दत्तमक्षयतां व्रजेत् ॥ १० उञ्छवृत्त्या समानीतं दत्वा दुर्वाससे मुनिः । शिलोच्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वाऽ(सत्कृत्या) गात्परं पदम् ॥ दानवेन्द्रो बली राजा पात्रं विज्ञाय वामनम् । विपक्षायाप्यदात्तस्मै त्रिलोकी स्वभुजार्जिताम् ॥ तस्मात्पात्राय दातव्यं धनं धर्माणितं मया । गोविन्दतुष्टये सम्यग्वाञ्छनीयं न तत्फलम् ।। १३ पुण्डरीकस्तु धर्मात्मा भागिनेयो गजाहयात् । आयास्यति मयाऽऽदूतः सर्वपात्रशिरोमणिः।।१४ आनीतस्य धनस्याध तस्मै पात्राय सूनवे । स्वसुर्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि॥ १५ 59 १च. त्मा तेनागात्परमं पदम् ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy