________________
१६७४
महामुनिश्रीव्यासप्रणीतं-- [ ६ उत्तरखण्डेअश्ववारः पदातीनां विंशतिं पुरतो दधत् । कालिङ्गः स महापापस्तमनु पस्थितस्तदा ॥ १५ । कतिचिद्वसतीर्गत्वा सह तेन विशाऽधमः । सोऽन्त्यजस्तद्धनं हर्तुं न लेभे समयं नृप ॥ १६ बलेनापि ग्रहीतुं न क्षमोऽभूत्तस्य स श्रियम् । वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः ॥१७ अत्राऽऽगतः स पापात्मा वैश्यस्यार्थेन पार्थिव । निशीथे शिषिरं तस्य धनं हतु समाविशत् १८ एकेन तस्य वैश्यस्य जनेन स तु लक्षितः । प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् ॥ १९ तमालक्ष्य समीपस्थं स जनः प्रहरमदः । उभयोः पादयो राजस्वयमेव गृहीतवान् ॥ २. तौ गृहीत्वा जनानन्यान्बोधयन्महरप्रदः । हस्तेनैव तु पापेन चौरेणाऽऽघातितो हि सः ॥ २१ इत्वा पलायमानस्तु गृहीतोऽन्यैर्जनस्तदा ।.ग्रहीतारं पुनईत्वा सहसा स पलायितः॥ २२ एकेन केनचिद्राजन्सेवकेन धनुर्धता । दूरादेव शरेणाऽऽशु धावन्संनिहतोऽधमः ॥ २३ हतमात्रः शरेणाऽऽशु तत्याज स च जीवितम् । तौ च द्वौ निहतौ राजन्वैश्यस्यानुचरावुभौ २४ ते त्रयो वरयानानि गणानीतानि भूपते । समारुह्य दिवि स्थित्वा वैश्यमेतद्वभाषिरे ॥ २५
___ कालिङ्गवैश्यानुचरा ऊचुःभो भो वैश्यपते साधो तीर्थमेतदनुत्तमम् । इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि ॥ २६ [श्वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि । गच्छामस्त्रिदिवं वैश्य सांप्रतं शिवमस्तु ते ॥ २७
श्रीनारद उवाचइत्युक्त्वा ते ययुः स्वर्ग शिवे शिवकृतां पदम् । यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः॥ अथ रात्रौ व्यतीतायां प्रातरत्र विशां वरः । स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् ॥ २९ तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो । स्वर्गात्पुनरिहाऽऽयातौ तं वैश्यमिदमूचतुः ॥ ३० . भृत्यावूचतुःभो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि । पापानामपि जन्तूनां स्वर्गप्राप्तिन संशयः ॥ ३१ स्थले मृतस्य जन्तोश्च पतन्त्यस्थीनि वारिणि । तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिभेवेत्।। स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि । संपाप्ता ब्रह्मणो लोके स्थितिरा ब्रह्मसंस्थितः॥ स्थले मृतस्य चोरस्य पेतुरस्थीनि नाम्बुनि । यतोऽतः स विशां नाथ तस्थौ वृन्दारकालये ३४ तस्यापि देहमन्विष्य तीर्थेऽस्मिन्नाशु पातय । यथा सोऽपि सुरश्रेष्ठः प्रामुयानौ गतिं पराम् ३५ उपकारः सदा कार्यः परेषामपि साधुभिः। अपकारो न मन्तव्यः कृतो भृशमसज्जनैः ॥ ३६
श्रीनारद उवाचइत्युक्त्वा तौ महाभागौ गतौ हरिपुरी प्रति । हरिद्वारस्य तीर्थस्य सलिले चास्थिपातनात् ३७ स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम् । दग्धुमन्वेषयामास न लेभे तं तु भूपते ॥ ३८ पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ । हरिद्वारे महाराज स सस्ताविति वाञ्छया ॥ ३९ अहमुत्पाद्य सत्पुत्रान्धर्मार्जितधनेन च । संतोष्य विमान्बन्धूंश्च विष्णुमाराध्य सेवया ॥ ४० त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरम् । तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ॥ ४१ इति कामनया राजन्स वैश्यस्तत्र कामदे । तीर्थे स्नात्वा यतः सर्वैर्भूत्यैः सममगागहम् ॥ ४२
* धनुचिहान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः ।
१ च. खड्गेनैव । २ अ. 'पुरं प्र।