________________
२१३ त्रयोदशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६७३ अहं यामि समानेतुं वदर्याख्यं गृहान्दिन । वृद्धं स्वकीयं पितरं निस्पृहं मोक्षकामुकम् ॥ ९६
नारद उवाचइति तीर्थवरस्यास्य वदर्याख्यस्य भूपते । महिमानं समुत्कीर्य स सिद्धः स्वगृहं ययौ ॥ ९७ अथ कालेन कियता स सिद्धः सह भार्यया । तीर्थानि पर्यटन्धीर इन्द्रप्रस्थेऽभ्यगादिह ॥ ९८ तेनैव वपुषा राजनीतवांस्तौ निजालयम् । स सिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ॥ ९९ तत्रैव स्नापयामास तत्तीर्थ मोक्षकामुकम् । सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा ॥ ततो नीतो निजगृहं वृन्दारकविवन्दितः॥
इन्द्रप्रस्थान्तरगतमिदं सद्भदोख्यमीशः
स्नानाद्दद्यादखिलजनिता मानसेप्टं पदार्थम् । माहात्म्यं ते नयनतिमते वर्णितं तस्य पूतं
यच्छत्वा वै पतति न जनो मातृगर्भे कदाचित् ।। इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये बदरिकाश्रममाहात्म्यवर्णनं नाम
द्वादशाधिकद्विशततमोऽध्यायः ॥ २१२ ॥ (१८) आदितः श्लोकानां समष्ट्यङ्काः-४२०८३
अथ त्रयोदशाधिकद्विशततमोऽध्यायः ।
mor
शिबिरुवाचवणितं मे त्वया साधो माहात्म्यं वदरीभवम् । यन्निशम्य मनो याति मम निर्मलतां मुने ॥ १ एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम् । सकलं मुनिशार्दूल चतुर्वर्गप्रदायकम् ॥ भुवि नातः परं तीर्थ तिरश्चामपि मुक्तिदम् । श्रेष्ठं सकलपापन्नं दर्शनादेव नारद ॥ एतदन्तर्गतस्यास्य हरिद्वारस्य नारद । माहात्म्यं श्रोतुमिच्छामि त्वत्तः संतोपकारकात् ॥ ४ मामुद्धर मुने दीनमविद्याकामकर्मभिः । वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ॥
श्रीनारद उवाचआकर्णय महाभाग वर्णयामि तवाग्रतः। हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ॥ अत्रैकः श्वपचः पापो यथा स्वर्गतिमाप्तवान् । तत्तेऽहं कथयाम्यद्य शृगुप्वैकमनाः प्रभो ॥ ७ धर्मक्षेत्रे कुरुक्षेत्रे कालिङ्ग इति विश्रुतः । श्वपचः पापकर्मा वै वसति स्म पुरावहिः॥ ८ पञ्चषड्वर्षदेशीयान्वालानगरवासिनाम् । प्रसह्य वश्चयित्वा च क्ने नीत्वा जघान सः॥ ९ तेषामलंकारमयं रजतं हेमवन्नृप । रत्नादिकं च कायस्थं हत्वा ताजगृहे ततः॥ १० विवेश साधुनिलये रात्रौ धनजिहीर्पया । पथिकान्धनमालक्ष्य संजघ्ने निर्जने वने ॥ ११ कुरुक्षेत्रे समायाता एकदा रविपर्वणि । नानादिग्भ्यो जना राजन्नानादानजिहीर्पया ॥ १२ तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते। दानं दत्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः१३ एकः कश्चिद्विशां श्रेष्ठो धनेन महता युतः। पश्चात्सर्वजनेभ्यस्तु (नानां तु) चचाल स्वगृहं प्रति ॥
१ क. ख. ज. ते नप नति। २ क. ख. ज. हेऽधमः । वि।