________________
१६७२ महामुनिश्रीव्यासपणीतं
[६ उत्तरखण्डेयज्ञावं रक्षतः स्वस्य पितुस्त्वमिव सागरान् । सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ॥ ७० आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः । रे रे पापेति संवोध्य ततो मां मुनिसत्तमः ॥ ७१ शशापेति महारण्ये महिषो भव सांप्रतम् । तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ॥ ७२ मरुदेशे महारण्ये जातोऽहं महिषो मुने । चिरकालमहं तत्र न्यवसं मुनिपुंगव ।। अत्राऽऽगतः कृतेनाहं पुण्येन तदपि शृणु । वापीकूपसरस्यस्तु बहवः कारिता मया ॥ ७४ सहकारादिवृक्षाणामारोपो विहितः पथि । पुण्येनानेन मे देव पातो न नरकेऽभवत् ॥ ७५ तीर्थस्य च मया प्राप्तो ह्यमुष्य जलसंगमः। एतत्ते कथितं सर्व पूर्वजन्मशुभाशुभम् ॥ ७६ येन तीर्थ मया प्राप्तमेतद्योनिश्च माहिषी । अस्य तीर्थवरस्याम्बुस्पर्शाजातिस्मरोऽभवम् ॥ कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ॥
कपिल उवाचएतत्तीर्थ महापुण्यं बदर्याख्यं रमापतेः । अत्र स्नाहि द्रुतः कामं स्त्रचित्तस्य हि लप्स्यसे ॥ ७८
सिद्ध उवाचएतच्छ्रत्वा वचस्तस्य महिषः स महामुने । तत्र तीर्थवरे स्नातुं प्राविशत्स्वर्गवाञ्छया ॥ ७९ स्नात्वा स्वर्गेच्छया तस्मिञ्जलात्तटमुपागते । तत्क्षणं गजमारुह्य शक्रः स्वर्गात्समाययौ ॥ ८०
इन्द्र उवाचहे कलिङ्गपते नैनं देहं जहिहि माहिपम् । प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम् । त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ॥
सिद्ध उवाचइत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिपम् । दिव्यं वपुः समासाद्य गजराज समारुहत् ८२ गजराजं समारुह्य स्थित्वा च गगने क्षणम् । प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ॥ ८३
कलिङ्गप उवाचनमस्ते परमेशान केवलज्ञानहेतवे । सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ॥ त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनी । देहिनां मायया ग्रस्तचेतसामपि ते विभो ८५ ये वेदविहितं त्यक्त्वा वर्तन्ते स्वेच्छया मुने । तान्दण्डयास दण्ड्यांस्त्वं मजयंस्तिर्यगादिषु ८६ इन्द्रादयो लोकपालाः सर्वे त्वदधिकारिणः । त्वदिच्छामनुवर्तन्ते भीता दण्डकृतो हि ते ॥ ८७ त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे । अवतीर्य विनाशाय हताः सर्वात्मना त्वया ॥ ८८ ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः । ते ते तमोमयीं हित्वा तनुं वैकुण्ठमाययुः ॥ ८९ आज्ञापय जगन्नाथ गन्तुं मां त्रिदशालयम् । अनुगृहाण शक्रं च नमन्तं वीक्षणामृतैः ॥ ९० प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो । तीर्थस्य स्वतनुं हित्वा तामसी साविकी गतः॥९१ इन्द्रेण सह नागेन्द्रमारुह्य त्रिदशालयम् । गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधे ॥ ९२
सिद्ध उवाचइत्यभिष्ट्रय देवेशं कपिलं स कलिङ्गपः । नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ॥ ९३ ।। एतन्मयाऽद्भुतं विम दृष्टं बदरिकाश्रमे । गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ॥ ९४ नातः परं त्रिलोक्यां तु तीर्थ सर्वार्थदायकम् । याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ॥९५
८४