________________
१४ चतुर्दशोऽध्यायः ] पद्मपुराणम् ।
१२६७ तात हेरम्ब विघ्नेश लम्बोदर गजानन । रणाङ्गणे केन पुत्र सिद्धैः पूज्यो निपातितः ॥ वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ।।
नारद उवाचएवं विलपती गौरी शिवः प्राह सुदुःखितः।
मायाशिव उवाचसाक्षाद्रुद्रोऽस्मि देवेशि हरस्त्वं मा भयं कुरु ॥
पार्वत्युवाचवृषभः क गतो देव हतो जालंधरेण वै । शरजर्जरदेहस्य किं करोमि प्रियं तव ॥
नारद उवाचततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः। दीर्घ विनिहतो पुत्रौ वृथा शोचसि किं प्रिये४२ अधुना तेऽङ्गसङ्गेन देवि मांत्रातुमर्हसि । शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम् ॥ ४३ प्रत्युवाचाम्बिका देवं वभापे नोचितं वचः ॥
४४ पार्वत्युवाच
महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे।
श्राद्धे प्रयाणे गुरुवृद्धसंनिधौ रतिं बुधाः शंकर वर्जयन्ति ।। श्रान्तामध्वरतां विदेशविरहक्रान्तां विवाहोत्सवे ।
यात्रायां परितोषितां च सलिलक्रीडागतां रा(रो)गिणीम् ।। मुग्धां च प्रसवामथो ऋतुमती मत्वा रमन्ते सदा (न वै)
मेने भा(भो)ग्यतया स गोतमऋषिस्त्वन्यां न गच्छेत्सुधीः ॥ कथं मां दुःखदुःखाता पुत्रशोकेन पीडिताम् । ग्लानां वाप्पपरिम्लानां संप्रार्थयसि चाऽऽतुराम्।।
नारद उवाचभवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः । उवाच स्वार्थमुद्दिश्य गौर्या रूपेण मोहितः ४८
मायाशिव उवाचपुरुषस्याऽऽतियुक्तस्य न यच्छन्ति गतिं स्त्रियः । तथैव रोरवे घोरे पतिष्यन्ति न संशयः॥४९ गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने । सांप्रतं गृहशून्योऽहं सर्वशून्योऽस्मि भामिनि ॥ ५० स जीवितविहीनोऽहं त्वां प्रष्ट्रमिह चाऽऽगतः। स्वां गुहां तु प्रविश्याऽऽशु त्यजामि प्रकृति स्वकाम उत्तिष्ठ नन्दिन्संयामस्तीर्थे भव पुरःसरः । त्वं याहि स्व(स्वे)च्छया कान्ते प्रकृति स्वां परित्यज
नारद उवाचइति मायामहेशस्य वचः श्रुत्वाऽम्बिका ततः। दीर्घ दध्यौ(धौ)महाश्वासं शोकेन च जडीकृता। तस्या वै परमः क्षोभः किंचिन्नोवाच सा क्षणम् । यया संमोहितं सर्व जगत्स्थावरजङ्गमम्।। ५४ सैव संमोहिता तेन न जाने दुःखमात्मनः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने मायामहेशागमनं नाम चतुर्दशोऽध्यायः ॥ १४ ।।
आदितः श्लोकानां समष्ट्यङ्काः-३२४०८