________________
१६६८
[ ६ उत्तरखण्डे -
महामुनिश्रीव्यासप्रणीतं -
बुध उवाच
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया । लज्जां विहाय संपश्य शापस्य मम वैभवम् ।। २८ पितोवाच -
इत्युक्त्वा जलमादाय यदा शत्रुं समुद्यतः । तदा सा मन्दमाहेदं पिता तव सुधाकरः ॥ २९ पितोवाच
इत्युक्ते च तया साध्व्या चन्द्रः स्वतनयं बुधम् । अमुं गृहीत्वा सानन्दं जगाम निजमन्दिरम् ॥ बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ । ब्रह्मा देवाथ दैत्याश्च तेऽपि स्वं स्वं गृहं ययुः ३१ एतत्ते सर्वमाख्यातं यत्त्वं मां परिपृष्टवान् । बृहस्पतिस्त्रियां जातो यथाऽयं चन्द्रवंशकृत् ।। ३२
श्रीनारद उवाच -
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः । उवाच च स्वपितरं कुण्डोऽयं स्वैरिणीसुतः || ३३ उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम् । सर्वसच्चान्तरज्ञोऽयं शप्स्यते त्वां त्वदुक्तिवित् ३४ श्रीनारद उवाच --
इत्युक्ते तेन मुनिना चान्द्रिर्ज्ञात्वा तदीरितम् । सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ॥ ३५
बुध उवाच
३७
३८
३९
४०
शृण्वन्तु मुनिशार्दूला भवन्तो मम भाषितम् । यदि साध्वथवाऽसाधु विचारयत मा चिरम् ॥ ३६ भवतां तबुद्धीनां दर्शनार्थमिहाऽऽगतः । कृतवान्कस्यचिन्नाहमपराधं मनागपि ॥ असूया किमर्थं मामवजानन्ति दुर्मदाः । स्वजन्मसफलत्वाय भवद्दर्शनलालसः ॥ स्वभाव एव दुष्टानां साधूनपि निरेनसः । उद्देजयन्ति यत्कापि मिष्टवाचः पिका इव ॥ दुःस्वभावं न मुञ्चन्ति दुष्टाः सत्संगमादपि । गङ्गाम्बुसंगमेनापि क्षारतामिव नीरधिः ॥ अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान् । वने तृणचरान्हन्ति निजगानविदोऽपि सः ॥ ४१ मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम् । यज्जले चरतस्तीर्थे घ्नन्ति तत्प्रकृतिर्हि सा ॥ ४२ साधवोऽपि न मुञ्चन्ति स्वभावं दुष्टसङ्गतः । वृता विषाग्नियुक्सपैः श्रीखण्डा इव शीतताम् ॥ ४३ परोदयेऽपि नृत्यन्ति किं स्वपक्षस्य साधवः । यथोन्मत्ता मुनिवरा वारिवाहस्य बर्हिणः || ४४ धारयन्ति परार्थ हि निजाङ्गमपि साधवः । पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ॥ निजोदयस्तु साधूनां स्वच्छस्याऽऽनन्दहेतवः । यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ॥४६
४५
श्रीनारद उवाच -
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम् । शशापेति त्वमप्याशु कुण्डो भव महीतले ॥ ४७ एवमाकर्ण्य तं शापं पिता बुधविसर्जितम् । स्वपुत्रं पातयामास तदङ्घ्योः क्षम्यतामिति ॥ ४८ उवाच च न जानाति बालोऽयं तव वैभवम् । नोचितं क्रोधकरणमस्मिन्वाले भवादृशैः ॥ ४९ कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिः क्षमा । हुताशनप्रतप्तस्य शीतत्वमित्र चाम्बुनः ॥ अतः क्षमां विधायाऽऽशु विधेयस्मिन्ननुग्रहम् । वाले विवेकरहिते क्षमासारा हि साधवः ॥ ५१
५०
श्रीनारद उवाच - इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा । क्रोधं तत्याज शान्तात्मा चक्रे तस्मिन्ननुग्रहम् ॥ ५२
१ म तवे । य' ।
+