________________
y
२०९ नवाधिकद्विशततमोऽध्यायः ]
पद्मपुराणम् ।
द्विज उवाच
४७ ४८
जनानां दुःखदं पापमिह लोके परत्र च । तस्मात्पापं न कर्तव्यं मानवैर्दुःखभीरुभिः ॥ पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै । न तदाचरते भूयो न तत्फलमवामुयात् ॥ यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति न । तस्यास्या इव पापाया गतिरत्र परत्र च ।। ४९ अनया पापसंघातो लोकेऽत्र समुपार्जितः । इहैव तत्फलं भुङ्क्ते भोक्ष्यते नरकोऽप्यसौ ॥ ५० सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम् । प्रायश्चित्तं नच स्त्रीणां विमुखानां स्वकर्मणः ॥ ५१
१६६१
नारद उवाच -
५७
इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौ । विष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ५२ एवं सा दुःखमापन्ना भुञ्जाना कर्मणः फलम् । अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ॥ ५३ न तस्या अग्निसंस्कारः संजातः पापकर्मणः । आकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ॥ ५४ मरणावसरे तस्या यमभृत्याः समागताः । प्रापय्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ।। ५५ सौम्यः स धर्मिणां देवः साक्षादुग्रस्तु पापिनाम् । तस्या विलोकनाद्भूयः सोऽप्यभूद्वै पराङ्मुखः भृत्यानाज्ञापयामा[*स यम एव पराङ्मुखः । रौरवे नरके घोरे पात्यतां तु मयेरिता || इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौ] रवे । न्यपातयन्नधोवक्त्रां स्मरन्तीं कर्म यत्कृतम् ५८ एवं मन्वन्तरं यावत्सा स्थित्वा तत्र रौरवे । पश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ।। ५९ तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः । फलं मृतकमांसेन कुर्वत्याहारमुत्कटम् ॥ ६० एकदा समुनेः पुत्रो योऽस्याः कुक्षौ व्यजायत । विप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ६ १ मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम् । ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् || स उवाचाऽऽत्मनाऽऽत्मानं बुद्ध्वा तां निजमातरम् ॥
६२
मुनिपुत्र उवाच --
एतां तु तारयाम्यद्य दुस्तराहुः खवारिधेः । अहो न मुच्यते जन्तुर्जातपापेन कर्मणा ॥ ६३ आत्मनोपार्जितेनैव भोगकालावधिं विना । अस्याः कालो व्यतीयाय निरये मानवाभिधः ॥ ६४ सांप्रतं च जनेस्त्वत्र वत्सराणां शतं गतम् । कियदग्रे च भोक्तव्यमेतया पापमुल्बणम् ॥ ६५
नारद उवाच -
इत्यालोच्य पुनर्दध्यौ ज्ञानेनाऽऽमील्य चक्षुषी । दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा ॥ पुनरात्मानमाहेदं स द्विजप्रवरो नृप ॥
६६
मुनिपुत्र उवाच -
अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यते । विना सत्तीर्थमरणं शरणं वा रमापतेः ।। ६७ अथवा पिण्डदानेन गयायां मत्कृतेन च । विनाऽस्याः सद्गतिर्नैव कल्पकोटिशतैरपि ॥ ६८ न घटेत द्वयं चास्या अस्यां योनौ कदाचन । सत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ॥ ६९ अस्या उद्धारहेतुर्वै मनायाः पापसागरे । भविता मत्कृतं श्राद्धं गयायां च वहित्रकम् ॥
1
७०
नारद उवाच --
इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम् । आचख्यौ पितरं सर्व स्वमातुर्दुःखकारणम् ।। ७१
|
* धनुश्चिदान्तर्गतः पाठः क. स्व. च. ज. पुस्तकस्थः ।