SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १६५४ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेवेदायन उवाचइन्द्रप्रस्थान्तरावर्तिन्येषा या कोशला शुभा। स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ॥ ६१ केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते । मुकुन्दाऽऽख्याहि चेत्तस्य स्मृतिरस्ति तवानघ । मुकुन्द उवाचएकस्तु ब्राह्मणः कश्चित्सायं मगृहमागतः । तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ॥ ६५ सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे । निशीथे तस्य सर्वाङ्गे ज्वरोऽभूदतिदारुणः॥६६ तेन पीडितसर्वाङ्गो निद्रा लेभे न स द्विजः। प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ॥ ६७ तस्य दाहादिकर्माणि विहितानि मया गुरो। तदस्थीनि च गङ्गायां पातितानि विधानतः॥६८ तेन पुण्येन मेऽस्थीनि पतितानि शिवप्रदे । तीर्थेऽस्मिन्कोशलानाम्नि ब्रह्मदेवविनिर्मिते ॥ ६९ । नारद उवाचस्वचरिवमिति राजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या । इदमकथि मया ते तस्करात्माप्य मृत्यु व्यलभत दिवमेतत्तीर्थराजप्रसादात् ।। इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये मुकुन्दोपाख्यानं नाम षडधिकद्विशततमोऽध्यायः ।। २०६ ॥ ( १२) आदितः श्लोकानां समष्ट्यङ्काः-४१६३१ अथ सप्ताधिकद्विशततमोऽध्यायः । नारद उवाचशिवे तव पुरः सर्व मुकुन्दाख्यानमुत्तमम् । कथितं चण्डकस्यापि नापितस्य शृणुष्व मे ॥ ' . यस्मिन्दिने मुकुन्दस्तु ब्राह्मणस्तेन घातितः। चण्डकेन तदा राजस्तद्वृत्तं नागरैः श्रुतम् ॥ श्रुत्वा तैस्तनृपस्याग्रे निवेदितमिति स्फुटम् ।। नागरा ऊचु:चण्डकेन हतो राजन्मुकुन्दो ब्राह्मणोत्तमः । नीतं च तद्धनं भूरि ययुक्तं तद्विधीयताम् ॥ त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम् ॥ नारद उवाचइत्याकर्ण्य स भूपालो मत्रिणं पार्थवर्तिनम् । उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु ॥ ४ शीघ्रमानय तं पापं नोचेत्त्वां घातयाम्यहम् । उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम् ॥५ पीड्यते विषये यस्य प्रजा दस्युभिरुल्वणैः । स नृपो नरकं याति तेभ्यस्ताश्चेन रक्षति ॥ ६ नारद उवाचनिशम्येति वचो राज्ञः सचिवः स शिबे नृप । वेगेन हयमारुह्य पदातिशतसंयुतः ॥ ययो गृहे मुकुन्दस्य तस्य बन्धूनपृच्छत ॥
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy