________________
२०४ चतुरधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६४७ इत्युक्त्वा ता मिथः सर्वास्तं द्विजं प्रति दुद्रुवुः । विवृतास्या ललजिहाः प्रद्योतकमहाभुजाः १८ आयान्तीस्ताः समालोक्य ब्राह्मणो भयविह्वलः । आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप १९ ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः । तेजसा तस्य मत्रैश्च प्रत्यादिष्टा नराधिप॥२० ऊचुश्च को भवानत्र कुतः पाप्तोऽसि तद्वद । त्वदर्शनान्मनोऽस्माकं प्रसादमधिगच्छति ॥ २१ त्वत्पादस्पर्शनात्कि नो न विमो भविता फलम् । अतो मूर्धसु नो धेहि स्वकीयं पादपङ्कजम् ॥
नारद उवाचइत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः॥
२३ द्विज उवाचकृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः । सांप्रतं पुष्करं यामि भवतीभिः किमिप्यते ॥ यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा ॥
२१ राक्षस्य ऊचुः-- येषु तीर्थेषु विमेन्द्र त्वया स्नातं वदस्व नः । तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः॥ अस्मानतितरांतृष्णाक्षुद्भ्यां दारुणदुःखदात् ।।
ब्राह्मण उवाचअवन्तीमाश्रमात्पूर्वमहं हरिपुरीमितः । गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवाजले ॥ २६ ततः प्राप्तः प्रभासाख्यं तार्थ नीरधितीरगम् । तस्मात्सेतुनिबन्धेऽहं स्नातः परमपावने ॥ २७ तस्मादहं महापुण्यां किष्कियां समुपागतः। हतो यत्र तु रामेण वाली कपिगणेश्वरः॥ २८ तस्मान्मठं सरस्वत्या नर्मदातीरसंस्थितम् । समागतोऽहं यत्रास्ति भारती सर्वसेविता॥ २९ ततोऽहमविशं वाणी तां नत्वा दक्षिणापथे । शिवकाञ्चीविष्णुकाञ्च्यो दृष्टे तत्र मया पुरे ॥३० ययोमरणतो जन्तुः शिवो विष्णुश्च जायते । ततोऽहमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ॥ ३१ चतुर्वर्गपदः साक्षाद्भक्तानामभिकाङ्क्षताम् । तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ॥ ३२ प्रसादभूतं तस्यैव (तमगम) गङ्गासागरसंगमम् । तत्र देवानृषीन्पितूंस्तपयित्वा यथाविधि ॥३३ यत्र गङ्गा शतमुखी जाता तत्राहमागमम् । ततो गयामुपागत्य पिण्डान्दत्वा यथाविधि ॥ ३४ पितृभ्यस्तुलसीपुष्पचन्दनोदकपूजितान् । कोशलां शरयूवारिकर्णधारनभस्वतः ॥ ३५ पवित्रिताखिलजना स्पर्शनेनाहमागमम् । तत्रास्ति गोप्रताराख्यं तीर्थ त्रिदशदुर्लभम् ॥ ३६ तत्र स्नानादिकं सर्व निशाचर्यः कृतं मया । ततः काशीमहं प्राप्तो राजधानीमुमापतेः॥ ३७ नत्वा विश्वेश्वरं देवं विन्दुमाधवमेव च । स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ॥ ३८ त्रिरात्रमुषितस्तत्र प्रयागं पुनरागमम् । पौषशुक्ल चतुर्दश्यां साक्षाद्यत्र प्रजापतिः ॥ ३९ एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये । पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ॥ ४० तत्र तीर्थानि सर्वाणि वसन्ति च स्वमायया । ततोऽहं मथुरां प्राप्तो यत्र विश्रान्तिसंज्ञकम् ॥४१ तीर्थ तत्संनिधौ पुण्यमसिकुण्डाख्यमुत्तमम् । कृष्णगङ्गोद्धवारकेशिकालीयतीर्थभृत् ॥ ४२ यमुनाऽस्ति महापुण्या यत्र सर्वार्थदायिनी । उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ४३ राजमानानि खेचर्यः समस्तार्थकराणि च । सन्ति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ४४
१ ख. 'रिवक्रजः । २ इ. ज. श्रान्तमं । ३ ङ झ. कृष्णागडात्रुवा' ।