________________
२०३ व्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६:४५ मयोक्तमिति देवेश देहि मे वरमुत्तमम् । प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ॥ ४० ततः शतगुणं भूयाद्वितीयं क्षेत्रकं मम । इन्द्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयाऽनघ । इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा । तथाऽस्त्विति पुनर्वाचमुवाच श्रूयतां वचः॥ ४२
श्रीभगवानुवाच--- इन्द्रस्य खाण्डवारण्य इन्द्रप्रस्थाभिधं शुभम् । क्षेत्रं कलिन्दजातीरे मत्तुल्यास्तत्र ये मृताः ॥ ४३ विरिश्च रचिता तत्र स्वकीया द्वारकापुरी । मया शतगुणाऽम्भोधिनीरस्थायाः परा गुणैः ॥४४ तामुल्लङ्घ्य नरो यस्तु तीर्थमन्यनिषेवते । न तीर्थफलमामोति स पुमान्न मृषोदितम् ॥ ४५ सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः । द्वारका च पुरी माया तीर्थमन्यच्च रक्षति ॥ ४६ यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम् । अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम्
ब्रह्मोवाचइत्युक्त्वाऽन्तर्दधे विष्णुरहमप्यगमं स्वकम् । लोकं द्विजेन्द्र वैकुण्ठादधोभागे व्यवस्थितम् ॥ ४८ प्रयागान्मामकारक्षेत्रात्काशी शतगुणा स्मृता । काश्याः शतगुणं तीर्थ निगमोद्बोधकं तथा ॥४९ तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम् । एतत्रयमनुल्लङ्य यो गच्छति सितासितम् ॥ ५० तस्याहं वाञ्छितं विप्र ददामि खलु नान्यथा । केचिदाहुः सप्त पुरीः समपुण्या महर्षयः ॥ ५१ अयोध्यायाः शतं ताभ्य इन्द्रप्रस्थं प्रचक्षते । त्वमत्राऽऽगत्य विपेन्द्र सर्वकामफलप्रदे ॥ ५२ तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया। यावन्ति सर्वतीर्थानि ब्रह्माण्डकलशोदरे ॥ ५३ तेभ्योऽपरिमितं पुण्यं शतनामनि कीर्तिते । सुतं ते कुलधौरेयं तीर्थमेतत्पदास्यति ॥ स्नानाच तव गोविन्दः प्रसन्नात्मा भविष्यति ।
नारद उवाचइत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोदधे । विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत् ॥ ५५ इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे । सुतं वंशकरं देहि मह्यं भक्ताय ते नमः ॥ ५६
नारद उवाचइत्युक्ते तेन विप्रेण देववागभवत्तदा ॥
देववागुवाचपुत्रस्ते धर्मतत्त्वज्ञो वंशकर्ता भविष्यति । प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ॥ याहि गेहं विलम्बो मा सुकृतं ते निमज्जनम् ॥
नारद उवाचइत्याकये स तां वाणी विश्वस्तः पुत्रजन्मनि । चचाल जलमादाय द्वारकायाः कमण्डलौ।। ५९ मार्गे तस्य सखा विप्रो मलयाचलकेतनः । मिलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः ॥ ६० तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् । यद्भुतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिप्पिये ॥६१ उवाच स च धर्मात्मा सखे मम वचः शृणु । यावन्ति भारते क्षेत्रे तीर्थानि विहितानि मे ॥६२ तावन्ति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् । नीत्वा मां दर्शय सखे तत्तीर्थ सर्वकामदम् ॥६३ सखायस्ते वरा भूमावुपकुर्वन्ति ये सखीन् । न तैर्ननु समो लोके पिता माताऽथवा सुतः।। ६४
५४
१ क. 'देवोऽसौ त्र'।