________________
२०० द्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६३७ शरभ उवाचउत्तिष्ठ नय मामाशु तीर्थे निगमबोधके । ज्वरातेन मया पद्भ्यां तत्र गन्तुं न शक्यते ॥ यो मां नयति तत्तीर्थ त्वदन्यो नास्ति कश्चन ॥
शिवशर्मोवाचसथेति तमथाऽऽश्वास्य वैश्यं स रजनीचरः। स्कन्धमारोप्य वेगेन तत्तीर्थ पावनं ययौ ॥ ११८ ऊषतुस्तावुभौ तत्र विद्पतिः स च राक्षसः । कुर्वन्तो स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे ।। ११९ अथाहं पितुराकण्य महतीं गुरुवेदनाम् । तं प्रति प्रेरितो मात्रा चलितो निजसमतः॥ १२० अत्राऽऽगत्य मया दृष्टः स महाज्वरपीडितः । मूर्धा च वन्दितस्तेन दत्ताऽऽशीर्मेऽभ्यभाषत ।।
शरभ उवाचकिमर्थमिह भोस्तात दूरमार्गे समागतः । दिनानि कतिचित्तिष्ठ कुर्वनत्र निनक्रियाम् ॥ १२२ विकटो नाम मे मित्रं राक्षसः समुपैति वै । उत्तिष्ठ वपुषाऽमुष्य दण्डवत्पत पादयोः॥ १२३ न भेतव्यं त्वयाऽमुष्मात्त्यक्तहिंसादिकर्मणः। अधुना तीथमासाद्य संनिधौ मम तिष्ठति ॥१२४
शिवशर्मोवाचइत्युक्तोऽहं तदा पित्रा शरभेण महात्मना । उत्थाय पतितस्तस्य पादयोर्दण्डवद्भवि ॥ १२५ दोभ्यामुत्थाप्य मां सोऽथ गाढमालिङ्गय राक्षसः । स्वागतं मित्रपुत्रेति जगादाऽऽशिषमीरयन्।।
राक्षस उवाचभाग्यवानसि भोस्तात यत्त्वमत्र समागतः। पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम् ॥१२७ पितुरानृण्यमामोपि तीर्थे कृत्वा तिलोदकम् । स्नात्वा कुरु क्रियाः स्त्रीयाः पूर्वजन्म स्मरिष्यसि
शिवशर्मोवाचएवमुक्तस्तदा तेन स्नातुं तीर्थे वराम्भसि । प्रविष्टोऽहं स्मरंस्तात पूर्वजन्म शुभाशुभम् ॥ १२९ स्नात्वा विधिवदत्रैव पितुरन्तिकमागतः । अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति ॥ १३० पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च । श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै ।।१३१ पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा । यास्यामि गृहमित्यत्र दशोषितमहानि मे ॥ १३२ दशाहाभ्यन्तरे तात तातस्य मरणं मम । अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः ॥ १३३ अथो गरुडमारुह्य वक्षसा धारयश्रियम् । आजगाम स्वयं विष्णुर्नवीनघनविग्रहः॥ १३४ पीतवासाश्चतुर्बाहुः पङ्कजारुणलोचनः । ब्रह्मेन्द्रादिभिरादित्यैः सनाथैरन्धकारिणा ॥ १३५ सेव्यमानो गुणग्रामान्गायद्भिः किंनरेश्वरैः। हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः ॥ १३६ दत्त्वा स्वकीयं सारूप्यमारोप्य गरुडं तैथा। पितरं मम ब्रह्माद्यैर्वृतो वैकुण्ठमारुह(गम) १३७ पितुः सारूप्यमालोक्य विष्णोरहमचिन्तयम् । इति चित्ते तदाऽऽलोक्य जाततत्त्वोदये तदा ॥ न हि वर्णयितुं शक्यो यस्य तीर्थशिरोमणेः । महिमा यज्जलार्धे स्यान्मृतो जन्तुश्चतुर्भुजः १३९ न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु । अञ्जसा दृढमाहात्म्यं धनगेहादिवृष्णया ॥ १४० पितुरत्रोटजे तावत्स्थातव्यं हि मया मम । यावत्तु कर्मणां भुक्तिः प्रारब्धानां महीतले ॥ १४१
१. तीर्थे त्व। २ . श. म. यथोक्तं । ३ क. ख. ज. तदा ।