SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १६३६ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे ९४ ९५ ९६ ९७ पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः । पुरान्निःसारितो निःस्वो गतोऽहं ग्राममन्तिके ॥ ८९ तत्राssसीन्मे सखा नाम देवको ब्राह्मणोत्तमः । तेनाहं रक्षितो गेहे कुर्वता चिरमादरम् ॥ ९० वसंस्तत्र सुखेनाहं तद्भार्या रूपशालिनीम् । कामातुरोऽहमभजं बलान्मित्रे गते कचित् ॥ ९१ सामृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम् । तां दृष्ट्वा तमसा युक्ते निशीथेऽहं पलायितः । पलायमानस्तरसा धृतोऽहं राजकिंकरैः । चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ॥ ९३ मृतं मां यातनादेहमावेश्य यमकिंकराः । रौरवे निरये घोरे चिक्षिपुर्यमशासनात् ॥ षष्टिवर्षसहस्राणि तत्राहं तीव्रयातनाम् । भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ॥ शतवर्षाण्यतीतानि राक्षसत्वे विशां पते । वदामि तमुपायं मे येनास्मान्मुक्तिमामुयाम् || पुण्यं तदपि ते साधो वदामि शृणु सादरम् । येन तीर्थवरस्येदं जलं मम मुखोद्गतम् ॥ तत्रैव जन्मनि मया कृत्वा हरिदिनत्रतम् । संसर्गानेच्छया वैश्य रात्रौ जागरणं कृतम् ॥ ९८ द्वादश्यामथ संस्नात्वा (4) भोक्तुं मयि समुद्यते । मङ्गृहे कश्विदायातो वैष्णवो विष्णुरूपधृक् ॥९९ कुपितोऽहं तमालोक्य दुर्वचोऽवदमग्रतः । क्व गच्छास दुराचार दाम्भिक स्त्रीजनान्तरे ।। १०० इत्युक्तः स मया धीरस्तुल्यो मानापमानयोः । तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा १०१ दाभिमुखमायान्ती पत्नी मम पतिव्रता । पतित्वा पादयोस्तस्य तं साधुं गृहमानयत् ॥ १०२ मयाऽपमानितस्यापि न क्रोधोऽभून्महात्मनः । तयाऽऽहतस्याप्यानन्दो यतः सोऽरिसुहृत्समः ॥ तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा (तु) । भोज्यं भोजय जीवेश जयतद्भुवनद्वयम् ॥ १०४ इत्युक्तोऽहं तया साध्या न्यगदं तं महाशयम् । म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम् ॥ इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यया । प्राक्षालयं पुनस्तं तु निवेश्याssसनमुत्तमम् ||१०६ अदद पात्रमनेन पूर्ण तस्मै विवेकिने । जलं च तत्करे साधव्या प्रेरितोऽहं तया मुहुः ॥ १०७ उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः । राम राम हरे कृष्ण जपन्निति जगाम ह । १०८ कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया । पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे ॥ १०९ शिवशर्मोवाच विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे । पथिकः स च ते बाहाः प्राहुस्ते दिव्यदेहिनः ॥ पथिकवाहा ऊचु:भो भो विशां पते साधी प्राप्ता अप्यपमृत्युताम् । त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः ॥ त्वत्सङ्गे धनलोभेन विपते चलिता यतः । विगता न धनाकाङ्क्षा मरणावसरेऽप्यतः ।। ११२ तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः । मरणे ह्यनुभावान्तु मैत्री प्राप्ता धनेशितुः ॥ नामस्त्वां वयं यामो धनेशनगरी प्रभो । विमानैस्तद्गणानीतैर्नानामणिविभूषितैः ॥ प्रयाहि मा विलम्बस्व तीर्थे निगमबोधके । त्वमनेन समं साधो तारयैनमपि द्रुतम् ॥ ११३ ११४ ११५ शिवशर्मोवाच - -- इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समन्ततः । विमानकिंकिणीनादैर्नादयन्तोऽथ रोदसी ॥ अथ वैश्यो मम पिता तमाह रजनीचरम् ॥ ११६ १ ङ. झ. य. महाहवम् । २ क. 'तः । गच्छ गच्छ दु । ३ ङ. झ. म. 'जय तीबेश अ । ४क. 'ता' ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy