________________
1
२०० द्विशततमोऽध्यायः ]
पद्मपुराणम् ।
१६३५
६३
पलद्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना । आरोप्य शिविकां तं तु शरभं वैश्यसत्तमम् ॥ पान्थः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम् । अस्य तीर्थवरस्याथ कमण्डलुघृतं जलम् ६४ पाययन्नल्पमल्पं तं तृषार्ते सोऽध्वगो ययौ । अथ ते सरसस्तीर उत्तीर्णा भोक्तुमध्वनि ॥ ६५ स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः । कियतीं भूमिमुल्लङ्घ्य तृषार्तास्ते कमण्डलोः जलं पीत्वा तृषार्ते तं शरभं चाप्यपाययन् । अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ।। ६७ विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत । तान्दृष्ट्वा स धाक्रान्तो वेगवान्विकृताननः ॥ ६८ अभिदुद्राव चरणपातेनाऽऽकम्पयन्महीम् । आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ।। ६९ सं केशेषु समादाय भ्रामयामास खेचरः । गता सून्भ्रामणेनैव भूतले तानपातयत् ॥ चखाद पिशितं तेषां पपौं कोशाच्च शोणितम् । कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ॥ ७१ एनं तु भक्षयिष्यामि पश्चादम्बु पिवाम्यहम् । इति कृत्वा मतिं वारि तर्थिस्यास्य कमण्डलोः || मुखे चिक्षेप स तदा रजनीचरपुंगवः । क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ॥ जाता स तु वधात्तस्य शरभस्य न्यवर्तत । पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् || येन राक्षसभावस्तु भूतो विप्रोद्भवादपि । स्मृत्वा पापमुपेत्याऽऽशु समीपे शरभस्य तु ॥ उवाच ज्ञानमापन्नो राक्षसः पितरं मम ।
७०
७३ ७४
राक्षस उवाच -
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी । भक्षिता ये मया घोररूपेणाधमरक्षसा || ७६ कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः । पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ॥
७७
वैश्य उवाच
७८
७९
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम । तीर्थानि पर्यटन्निन्द्रप्रस्थेऽहं समुपागतः ॥ तत्राहमभवं दुःखी ज्वरेण विधियोगतः । [*ततो मे बुद्धिरुत्पन्ना गन्तुं गृहमसत्पथ ] ॥ तत्र कश्चित्समायातः पान्थो वर्षेण पीडितः । प्रार्थितः स मयाssनीय शिविकां मां गृहं नय ॥ स चायं शिविकां पान्थः समुपानीय सत्वरः । मामारोप्य च तां धीरश्वलितो मट्टहं प्रति ।। ८१ स पान्थस्ते च शिविकावाहाः संप्रति भक्षिताः । त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु इन्द्रस्य खाण्डववने यमुनाऽस्ति सरिद्वरा । तत्तीरेऽस्ति हरिप्रस्थं तीर्थ तीर्थोत्तमोत्तमम् ॥ ८३ सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् । निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात् ८४ एतते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया । पृच्छामि त्वामहं किंचित्तद्वदाऽऽशु निशाचर ।। ८५ पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना । वद किं ते कृतं पापं येन जातोऽसि राक्षसः ॥ ८६
राक्षस उवाच -
पुराऽहमभवं विप्रः पुण्ये वेदविदां कुले । दुराचारोऽह्यधर्मात्मा शृणु सर्व वदामि ते ॥ क्रीडा हि मया नित्यं द्यूतेन सह तद्विदैः । हारितं द्रविणं भूरि स्वकीयं पितुरेव च ॥
७५
* धनुश्चिहान्तर्गतः पाठः ख. पुस्तकस्थः ।
१ ज. भयः ।
८७
८८