________________
१६३० महामुनिश्रीव्यासप्रणीतं--
[६ उत्तरखण्डेपश्यता हिमवत्सानुशोभामथ महीभृता । अलक्षितागमः सिंहो बलाजग्राह नन्दिनीम् ॥ १२ सा चक्रन्द भृशं धेनुर्दुःखितेव दयास्वना । चित्ते धनुर्भूतस्तस्य जनयन्ती दयोदयम् ॥ ११ तदाकन्दितमाकर्ण्य तस्याः स जगतीपतिः । हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्तयत् ॥ १४ उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः । तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् ॥ १५ गृहीतां तेन सिंहेन तामालक्ष्य धनुर्धरः। निषङ्गाद्वाणमुद्धत् प्राहिणोदक्षिणं भुजम् ॥ १६ बाणमुद्धृत्य तूणीरासिहं हन्तुं मृगाधिपम् । गुणेनाऽऽकर्णमायोज्य चकर्ष वसुधाधिपः ॥ १७ जडीभूतसमस्ताङ्गस्तत्सिहालोकनेन सः । नाशकद्धाणमुत्स्रष्टुं राजाऽऽसीद्विस्मितस्ततः ॥ १८ तादृशं नृपमालक्ष्य जगाद स मृगाधिपः । नरवाचा भृशं भूयो विस्मयं प्रापयनिदम् ॥ १९
सिंह उवाचदिलीपं त्वामहं राजञ्जानामि रविवंशजम् । त्वं च जानीहि मां शंभोगणं कुम्भोदराभिधम् २० देवदारुरयं यस्ते वर्तते दृष्टिगोचरे । पार्वत्या पुत्रवद्वीर पालितः स्निग्धचित्तया ॥ २१ एकदाऽमुष्य वन्येन गजेनाऽऽकर्षता कटम् । उदपाटि महाराज वल्कलं मृदुलं भृशम् ॥ २२ एनं तादृशमालक्ष्य मृडानी करुणान्विता । मामत्र स्थापयामास सिंहं कृत्वाऽस्य रक्षणे ॥ २३ ममाऽऽह चेति सा देवी कुम्भोदर निशम्यताम् । योऽत्र जन्तुः समागच्छेत्तं खादेस्त्वं वसनिह ततः प्रभृति राजेन्द्र तदाज्ञां पालयन्नहम् । पालितां त्रिदशैः सर्वैः कंदरेऽत्र वसाम्यहम् ॥ २५ जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः। महती शांभवी माया वर्ततेऽत्र हिमाचले ॥ २६ अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः । यतो मत्पृष्टमारुह्य वृषमारोहति प्रभुः ॥ २७ निवर्तस्त्र निजं देहं रक्ष सर्वार्थसाधनम् । दैवेनाऽऽसादिता वीर गौरियं भक्षणाय मे ॥ २८
देवल उवाचइत्याकर्ण्य वचस्तस्य वीरसंबोधनान्वितम् । प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः ।। २९ ।
राजोवाचसर्गस्थितिविसर्गाणां कारणं जगतः शिवम् । अम्बिकां जगदम्बां च नमामि मृगराज तौ॥३० त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप । ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ३१ वसिष्ठो ब्रह्मणः पुत्रो गुरुनों विदितस्तव । तस्येयं नन्दिनी नाम धेनुः सर्वार्थसाधिका ॥ ३२ संतानोत्पत्तये तेन दत्ताऽऽराधयितुं मम । इयमाराधिता सम्यग्दिनानि कतिचिन्मया ॥ ३३ लघुतर्णकमातेयं धृता ते गिरिकंदरे । शंभुभृत्यादलात्त्वत्तोऽशक्या मोचयितुं मया ॥ ३४ अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम् । कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ।। ३५ अनया सदृशी नान्या गौर्यया तोषयामि तम् । तस्माद्विमुच्य गामेनां मया कुरु निजाशनम् ३६ ददामि देहमात्मीयमपकीर्तिमलीमसम् । एवं न धर्महानिः स्यादृषेस्तव तु भोजनम् ॥ गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ॥
देवल उवाचएवमाकर्ण्य सिंहेन कृते मौने विशां पते । तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः॥ ३० तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम् । पपातोपरि पुष्पाणां दृष्टिर्मुक्ता सुरेश्वरैः ॥ ३९ पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः । जननीमिव तां धेनुं ददर्श न मृगाधिपम् ॥ तं विस्मितमुवाचेदं नन्दिनी नृपसत्तमम् ।।