________________
१६१४ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेतदन्ते ज्ञानवैराग्यभक्तीनां पुष्टता परा। तारुण्यं परमं चाभूत्सर्वभूतमनोडरम् ॥ ७५ । नारदश्च कृतार्थोऽभूत्सिद्धे स्वीये मनोरथे । पुलकीकृतसर्वाङ्गः परमानन्दसंभृतः॥ ७६ एवं कथां समाकर्ण्य नारदो भगवत्प्रियः । प्रेमगद्गदया वाचा तानुवाच कृताञ्जलिः॥
नारद उवाचधन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिः करुणापरैः। अद्य भागवताल्लब्धः सप्ताहे निकटे हरिः॥ ७८ श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः । वैकुण्ठस्थो यतः वृनः श्रवणाद्यस्य लभ्यते ॥ ७९
सूत उवाचएवं ब्रवति वै तत्र नारदे वैष्णवोत्तमे । परिभ्रमन्समायातः शुको योगेश्वरस्तदा ॥ ८०
तत्राऽऽययौ पोडशवार्षिकः सदा व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः। कथावसाने निजलाभपूर्णः प्रेम्णा पठन्भागवतं शनैः शनैः ॥ दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थाय ददुर्महासनम् ।
प्रीत्या सुरर्षिस्तमपूजयत्सुखं स्थितोऽवदत्संशृणुतामलां गिरम् ।। श्रीशुक उवाच
निगमकल्पतरोगलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ धर्मः पोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः
सद्यो हृयवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां प्रियं
यस्मिन्पारमहंस्यमेकममलं ज्ञानं परं गीयते । यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं
- तच्छृण्वन्प्रपठन्विचारणपरो भक्त्या विमुच्येन्नरः ॥ स्वर्गे सत्येऽथ कैलासे वैकुण्ठे नास्त्ययं रसः। अतः पिवन्तु सद्भाग्या मा मा मुञ्चन्तु कहिचित् सूत उवाच
इति ब्रुवाणे सति बादरायणौ मध्ये सभायां हरिराविरासीत् । महादवल्युद्धवफाल्गुनादिभिर्वृतः सुरपिस्तमपूजयच्च तान् ।। दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा । भवो भवान्या कमलासनस्तु तत्रागमन्कीर्तनदर्शनाय ।। प्रहादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी
वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्ताऽर्जुनोऽभूत् । इन्द्रोऽवादीन्मृदङ्गं जयजयसुकराः कीर्तने ते कुमारा
यत्राग्रे भाववक्ता रसविरचनया व्यासपुत्रो बभूव ।। १ य. द्य मे भगवाहब्धः सर्वपापहरो हरिः । २ छ. य. धनं । ३ ख. छ. य. "मेवम ।