SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ १६१२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेकर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः । फलपुष्पदलैर्विष्वग्वितानेन विराजितः ॥ १७ चतुर्दिक्षु ध्वजारोपो बहुसंपद्विराजितः । ऊर्य सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् ॥ १८ तेषु विमा विरक्ताश्च स्थापनीयाः प्रबोध्य च । पूर्व तेषामासनानि कर्तव्यानि यथोत्तरम् ॥ १९ वक्तुथापि तथा दिव्यमासनं परिकल्पयेत् । उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा ॥ २० प्राङ्मुखश्चद्भवेद्वक्ता श्रोता चोदङ्मुखस्तदा । अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ॥ २१ श्रोतृणामागमे प्रोक्ता देशकालादिकोविदैः। विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् ॥ २२ दृष्टान्तकुनलो धीरो वक्ता कार्योऽतिनिस्पृहः । अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः २३ शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः। वक्तुः पार्थे सहायार्थमन्यः स्थाप्यस्तथाविधः २४ पण्डितः संशयच्छेत्ता लोकवोधनतत्परः । वक्तृक्षौरं प्रकर्तव्यं दिनादर्वाग्वताप्तये ॥ २५ अरुणोदयेऽसौ निर्वयं शौचनानं समाचरेत् । नित्यं संक्षेपतः कृत्वा संध्याचं संप्रयत्नतः २६ कथाविनविघाताय गणनाथं प्रपूजयेत् । पितृन्संतमे शुद्ध्यर्थ प्रायश्चित्तं समाचरेत् ॥ २७ मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा । कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधि क्रमात् ।। २८ प्रदक्षिणानमस्कारान्पूजान्ते स्तुतिमाचरेत् । संसारसागरे मनं दीनं मां करुणानिधे ॥ २९ कर्मग्राहगृहीताङ्गं मामुद्धर भवार्णवात् । श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः ॥ ३० कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता । ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ॥ ३१ स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा । श्रीमद्भागवताख्य त्वं प्रत्यक्षः कृष्ण एव हि ॥ ३२ स्वीकृतोऽपि मया नाथ मुक्त्यर्थ भवसागरे । मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ॥ ३३ निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव । एवं दीनं वचः प्रोच्य वक्तारं चाथ पूजयेत् ॥ ३४ संभूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तुयात् । शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद ॥ ३५ एतत्कथाप्रकाशेन मदज्ञानं विनाशय । तदने नियमः पश्चात्कर्तव्यः श्रेयसे मुदा ॥ ३६ सप्तरात्रं यथाशक्त्या(क्ति)धारणीयः स एव हि । वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये ॥ ३७ कर्तव्यं तेहरिप्यो द्वादशाक्षरविद्यया । ब्राह्मणान्वैष्णवांश्चान्यांस्तथा कीर्तनकारिणः ॥ ३८ नत्वा संपूज्य दत्ताज्ञः स्वयमासनमाविशेत् । लोकवित्तधनागारपुत्रचिन्तां व्युदस्य च ॥ ३९ कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् । आसूर्योदयमारभ्य साधं त्रिपहरान्तकम् ॥ ४० वाचनीया कथा सम्यग्धीरकण्ठं सुधीमता । कथाविरामः कर्तव्यो मध्याह्न घटिकाद्वयम् ॥ ४१ तत्कथामनु कार्य वै कीर्तनं वैष्णवैस्तदा । मलमूत्रजयार्थ हि लघ्वाहारः सुखावहः ॥ ४२ हविष्यानेन कर्तव्यो ह्येकवारं कथार्थिना । उपोष्य सप्तरात्रं वै शक्तिश्वेच्छृणुयात्तदा ॥ ४३ घृतपानं पयःपानं कृत्वा च शृणुयात्सुखम् । फलाहारेण वा श्राव्यमेकभुक्तेन वा पुनः ॥ ४४ मुखसाध्यं भवेद्यत्तु कर्तव्यं श्रवणाय तत् । भोजनं तु वरं मन्ये कथाश्रवणकारकम् ॥ ४५ नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि । सप्ताहवतिनां पुंसां नियमाञ्शृणु नारद ॥ ४६ विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रये । ब्रह्मचर्यमधःसुप्तिः पत्रावल्यां च भोजनम् ॥ ४७ कथासमाप्तौ भुक्तिं च कुर्यानित्यं कथावती । द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ॥ ४८ ११. प्रोक्तो। . य. शुभशा' । ३ झ. वक्त्रा क्षौ। ४ य. ममोह।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy