________________
१९४ चतुर्नतत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६११ प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः । गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् ॥ ८५ कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः । अयोध्यावासिनः पूर्व यथा रामेण संगताः॥ ८६ तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम् । यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात् ॥
ब्रूमोऽद्य ते किं फलवृन्दमुज्ज्वलं सप्ताहयज्ञेन कथासु संचितम् । कर्णेन गोकर्णकथाक्षरो(रसो) यैः पीतश्च ते गर्भगता न भूयः ।। वाताम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्विरकालसंचितैः ।
योगैश्च संयान्ति नरा न तां गतिं सप्ताहगाथाश्रवणेन यान्ति ॥ इतिहासमिमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः । पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः ॥ ९०
आख्यानमेतत्परमं पवित्रं श्रुतं सकृदै विदहेदघौघम् ।।
श्राद्धे प्रयुक्तं पितृप्तिमावहेन्नित्यं सुपाठादपुनर्भवं च ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये गोकर्णकृतसप्ताहवर्णनं नाम त्रिनवत्यधिकशततमोऽध्यायः
॥१९३ ॥ (५) आदितः श्लोकानां समष्ट्यङ्काः--४०६१७
अथ चतुर्नवत्यधिकशततमोऽध्यायः ।
कुमारा ऊचुःअथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥ १ दैवगं तु समाहूय मुहूर्त पृच्छय यत्नतः। विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥ २ नभस्य आश्विनोों च मार्गशीपः शुचिर्नभः । एते मासाः कथारम्भे श्रोतृणां मोक्षसूचकाः॥३ मासानां विग्रहे यानि तानि त्याज्यानि सर्वथा।[*भौमार्की वर्जितौ वारौ भानि ध्रुवमृदूनि च नित्यायां च कथायां च पुराणानां मुनीश्वर । द्वादशी वर्जयेत्माज्ञः सूतसूतकसंभवात् ॥ ५ श्रीमद्भागवतस्यापि सप्ताहे नैत्यकेऽपि च । न निषेधोऽस्ति देवर्षे प्राहुरेवं पुराविदः] ॥ ६ सहायाश्चेतरे चात्र कर्तव्याः सोद्यमाश्च ये । देशे देशे तथा सेयं वातो प्रेष्या प्रयत्नतः॥ ७ भविष्यति कथा चात्र आगन्तव्यं कुटुम्विभिः । दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः ॥ ८ स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् । देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः।। तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् । सतां समाजो भविता सप्तरात्रं सुदुर्लभः॥ १० अपूर्वरसरूपैव कथा चात्र भविष्यति । श्रीभागवतपीयूषपानाय रसलम्पटाः॥ भवन्तश्च तदा शीघ्रमायान्तु प्रेमतत्पराः। नावकाशः कदाचिच्चेदिनमात्रं तथाऽपि तु ॥ १२ सर्वथाऽऽगमनं कार्य क्षणोऽत्रैव सुदुर्लभः । एवमाकारणं तेषां कर्तव्यं विनयेन च ॥ १३ आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् । तीर्थे वाऽपि वने वाऽपि गृहे वा श्रवणं मतम् ॥ विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् । शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ॥ १५ गृहोपस्करमुद्धत्य गृहकोणे निवेशयेत् । अक्पिश्चाहतो यत्नादास्तर्णा'नि प्रमेलयेत् ॥ १६
* धनुश्विद्वान्तर्गतः पाठः क. स. ज. पुस्तकस्थः । + आर्षत्वात्साधुत्वम् ।
१च, यैर्वहभिश्चैव सोऽयं सा।