SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेवेदान्तवेदसुनाते गीताया अपि कर्तरि । परितापवति व्यासे मुह्यत्यज्ञानसागरे ॥ ७४ तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् । तदीयश्रवणात्सद्यो निर्बाधो बादरायणः ॥ ७५ तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् । श्रीमद्भागवतं शास्त्रं शोकदुःखविनाशनम् ॥ ७६ नारद उवाच यदर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवादितानाम् । निःशेषशेषमुखगीतकथैकपानात्प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥ भाग्योदयेन बहुजन्मसमाजितेन सत्सङ्गमेव लभते पुरुषो यदा वै । अज्ञानहेतुकृतमोहमहान्धकारनाशं विधाय हि तदोदयते विवेकः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीभागवतमाहात्म्ये कुमारनारदसमागमो नाम नवत्यधिकशततमोऽध्यायः ॥ १० ॥ (२) आदितः श्लोकानां समष्ट्यङ्काः-४०३७१ अथैकनवत्यधिकशततमोऽध्यायः । [*सूत उवाचअथ देवर्षिस्तत्रैव कुमाराननुमान्य च । उवाच प्रणतो वाक्यं ज्ञानयज्ञकृतादरः] ॥ नारद उवाचज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् । भक्तिज्ञानविरागाणां स्थापनार्थ प्रयत्नतः॥ २ कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह । महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः॥ ३ कियद्भिर्दिवसः श्राव्या श्रीमद्भागवती कथा । को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः॥ ४ कुमारा ऊचु:शृणु नारद वक्ष्यामो विनम्राय विवेकिने । गङ्गाद्वारसमीपे तु [*कामोदाख्यं पुरं महत् ।। ५ स्वर्णद्याथोत्तरं पुण्यं] तटमानन्दनामकम् । नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् ॥ ६ नानातरुलताकीर्ण नवकोमलवालुकम् । रम्यमेकान्तदेशस्थं हैमपद्मसुशोभितम् ॥ यत्समीपस्थजीवानां [*क्षेत्रस्यैव प्रभावतः । मिथः संस्निग्धचित्तानां] वैरं चेतसि न स्थितम् । ज्ञानयज्ञस्त्वया तत्र कर्तव्यो ह्यप्रयत्नतः। अपूर्वा रसरूपा च कथा तत्र भविष्यति ॥ ९ पुरस्थं निर्वलं चैव जराजीर्णकलेवरम् । सुतद्वयं पुरस्कृत्य भक्तिस्तत्राऽऽगमिष्यति ॥ १० यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् । कथाशब्दं समाकर्ण्य तत्रिकं तरुणायते ॥ ११ सूत उवाचएवमुक्ता (क्त्वा) कुमारास्ते नारदेन समं ततः । गङ्गातटं समाजग्मुः कथापानाय सत्वराः॥१२ * धनुश्विहान्तर्गताः पाठाः क. ज. पुस्तकस्थाः । ख. णात्साधो नि । २ क. ज. वंक्षम कृष्णानुकर्षणे । ना। ३ 3. व्यो ममेदं वदता कियत् । । झ. म. 'व्यो ममेदं वरतामियत् । । ४ क. ज. 'क्ष्यामस्तुभ्यं यत्र कथामिमाम् । शृण्वतां पापराशिनी नृणां पुण्यविवार्धनीम् । ग'। ५ क. ज. ति । वृन्दावनप्रतोलिस्यं ज।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy