________________
१९० नवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
सूत उवाचइति तद्वचनं श्रुत्वा विस्मयं परमं गता। भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ॥ ८५
श्रीभक्तिरुवाचसुरर्षे त्वं च धन्योऽसि मद्भाग्येन समागतः । साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ॥ ८६ इहाऽऽनन्दो यथा मे स्यात्तथोपायस्त्वयोच्यताम् । योगेशस्यापि ते ब्रह्मन्नासाध्यं वर्ततेऽधुना॥
त्यजति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाऽऽकलय्य । ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नताऽस्मि ॥ ८८ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीभागवतमाहात्म्ये भक्तिनारदसमागमो नाम
___ नवाशीत्यधिकशततमोऽध्यायः ॥ १८९ ॥(१) आदितः श्लोकानां समष्ट्यङ्काः-४०२९३
अथ नवत्यधिकशततमोऽध्यायः ।
[*सूत उवाचएवं संपार्थितो विप्रास्तया भक्त्याऽतिदीनया । पुनथाकथयद्यद्वै तच्छृणुध्वं दयालवः] ॥ १।
नारद उवाचवृथा खेदायसे वाले अहो चिन्तातुरा कथम् । श्रीकृष्णचरणाम्भोज स्मर दुःखं गमिष्यति ॥२ द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः कापि नो गतः॥३ त्वं तु भक्तिः प्रिया तस्य सततं पाणतोऽधिका । त्वया हृतस्तु भगवान्याति नीचगृहेष्वपि ॥४ सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधको । कलौ तु केवलं भक्तिर्ब्रह्मसायुज्यकारिणी ॥ ५ इति निश्चित्य चिद्रूपः सरूपां त्वां ससर्ज ह । परमानन्दचिन्मूर्ति सुन्दरी कृष्णवल्लभाम् ॥ ६ बद्धाञ्जलि त्वया पृष्टः किं करोमीति चैकदा । त्वां तदाऽऽज्ञापयत्कृष्णो मद्भक्तान्पोषयेति च७ अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा । मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥ ८ पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च । भूमौ भक्तविपोषाय च्छायारूपं त्वया कृतम् ॥ ९ मुक्तिज्ञानं विरक्तिं च सहकृत्याऽऽगता भुवि । कृतादिद्वापरस्यान्तं(रान्तं वै)महानन्देन संस्थिता कलौ मुक्तिः क्षयं प्राप्ता पाषण्डामयपीडिता । त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा॥ ११ स्मृता त्वयाऽपि चात्रैव मुक्तिरायाति याति च । पुत्रीकृत्य त्वयेमौ च पार्थे स्वस्यैव रक्षितौ१२ उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव । तथाऽपि चिन्तां मुश्च त्वमुपायं चिन्तयाम्यहम् ॥ कलिना सदृशः कोऽपि युगो नास्ति वरानने । तस्मिंस्त्वां स्थापयिष्यामि गेहे गेहे जने जने१४ अन्यधर्मास्तिरस्कृत्य पुरस्कृत्य महोत्सवान् । तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १५ त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह । पापिनोऽपि गमिष्यन्ति निर्भयाः कृष्णमन्दिरम्।। येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी । न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १७ न प्रेतो न पिशाचो वा राक्षसो वाऽसुरोऽपि वा। भक्तियुक्तमनस्कानां स्पर्शनेऽपि प्रभुर्भवेत् १८
* धनुचिहान्तर्गतः पाठः क. ज. पुस्नकस्थः ।