SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ १८९ नवाशीत्यधिकशततमोऽध्यायः] पद्मपुराणम् । तत्र गोदावरीतीरे स्थितं परमधार्मिकम् । अपश्यत्करुणावन्तं ब्राह्मणं वेदपारगम् ॥ ५४ नित्यमष्टादशाध्या जपन्तं दान्तचेतसम् । ततस्तचरण द्वंद्वे लुठित्वा परया मुदा ॥ स तमष्टादशाध्याय नपठत्तेन शिक्षितम् । अथ पुण्येन तेनासौ विष्णोः सायुज्यमाययौ ॥ ५६ हित्वा पुरंदरादीनां देवानां पदमल्पकम् । ज्ञात्वाऽतीव मुदा युक्तो वैकुण्ठमगमत्परम् ॥ ५७ अत एवं परं तत्त्वं मुनीनामिदमुत्तमम् । दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया ॥ ५८ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । इत्येवं गीतामाहात्म्यं कथितं पापनाशनम् ॥ ५९ पुण्यं पवित्रमायुष्यं स्वयँ स्वस्त्ययनं महत् । यः शृणोति महाभागे श्रद्धया संयुतः पुमान् ॥ सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमामुयात् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये सतीश्वरसंवादेऽष्टादशा-यायमाहात्म्यवर्णनं , नामाष्टाशीत्यधिकशततमोऽध्यायः ॥ १८८ ॥ (१८) ___ समाप्तमिदं गीतामाहात्म्यम् । आदितः श्लोकानां समष्ट्यङ्काः-४०२०५ अथ नवाशीत्यधिकशततमोऽध्यायः । मा [*पार्वत्युवाचदेव देव महादेव सर्वज्ञ सकलार्थद । कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे ॥ १ श्रुतं च गीतामाहात्म्यं महाश्चर्यकथायुतम् । तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथा पराम् ॥ २ पुराणेषु च सर्वेषु श्रीमद्भागवतं परम् । यत्र प्रतिपदं कृष्णो गीयते बहुवर्षिभिः॥ मन्माहात्म्यं तथा तत्त्वं सेतिहासं वदाधुना ॥ ईश्वर उवाच-] यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूनहृदयं मुनिमानतोऽस्मि ॥ नैमिषे सूतमासीनमभिवाद्य महामतिः । कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ।। ५ शौनक उवाच-- अज्ञानध्वान्तविध्वंसिकोटिजन्माघनाशनम् । सूताऽऽख्याहि कथासारं मम कर्णरसायनम् ॥ ६ भक्तिज्ञानविरागाप्तो विवेको वर्धते कथम् । मायामोहनिरासश्च वैष्णवैः क्रियते कथम् ॥ ७ इह घोरे कलौ पायो जीवश्चासुरतां गतः । क्लेशाक्रान्तस्य तस्यैव शोधन किं पेरायणम् ॥ ८ श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् । कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना ॥ ९ चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसंपदम् । प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ १० सूत उवाचप्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च । सर्वसिद्धान्तनिष्पन्नं संसारभयनाशनम् ॥११ * धनश्चिहान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः । १३. "टिसयेसमप्रभम् । २य. रमायनम् । ३ क. ज. गनीतिक । ४ क. ज. प्रीतोऽहं ते द्विजश्रेष्ठ कथयिष्ये यथाश्रुतम् । सारात्सारतरं यच सं। २००
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy