________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेकस्मैचित्कवये प्रादात्तमुपायनहस्तिनम् । शतेन तेन कविना रोगोपद्रवभीरुणा ॥ १४ मालवक्षोणिपालस्य विक्रीतश्चैत्यकुंजरः । कियत्यपि गते काले पाल्यमानोऽपि यत्नतः ॥ १५ मुमूर्षुरभवत्तत्र कुंजरो दुर्जरज्वरः। न जिघ्रति पयः शीतं नाऽऽदत्ते कवलं गजः॥ १६ खपित्यपि न सौख्येन मुञ्चत्यश्रूणि केवलम् । दिवा नक्तं स्थाणुवच्च तिष्ठति भ्रष्टचेतनः ॥ १७ इत्थं तैर्हस्तिपैदृष्टो दुर्व्यवस्थो गजाधिपः । सत्वरं कथयामासू राज्ञे गजहिताय ते ॥ १८
हस्तिपा ऊचुःमहीपाल न जानीमो गजस्तेऽस्वस्थमानसः । न खादति न पिबति न स्वपित्यपि वै पुरा(तथा) स्वकरेण रजो भूमेन स्वपृष्ठे निषिञ्चति । अश्रुपातं बहुविधं करोति दृश्यतामिति ॥ २०
श्रीशिव उवाच[तच्छ्रुत्वा तस्य वृत्तान्तं राजा द्रष्टुमगात्स्वयम् । मत्रिभिर्भेषजे दक्षैर्गजरोगकवेदिभिः ॥२१ । ततो हस्तिपकारव्यातं वृत्तान्तमवनीपतिः। आकर्ण्य स समायातो यत्राऽऽस्ते ज्वरितो गजः२२ स चाऽऽलोक्य च भूपालं जगद्विस्मयकारिणीम् । वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः ॥२३
गज उवाचराजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे । निर्जितारातिसंघात मुरारिचरणप्रिय ॥ किमौषधैरलं वैद्यैः किं दानः किंतु जापकैः । गीतासप्तदशाध्यायजापकं द्विजमानय ॥ तेनायं मामको रोगः शाम्यत्यत्र न संशयः ॥
श्रीशिव उवाचयथाऽऽदिष्टं गजेनाऽऽदौ तथा चक्रे नराधिपः । ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् ॥ [+तेन विप्रेणाभिमन्त्र्य जले क्षिप्ते तदुत्तमे] । अथ दिव्यं समारूढं विमानमवनीपतिः॥ तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् ॥
राजोवाचकिंजातीयः किमात्मा त्वं किंवृत्त इति मे वद । केन वा कर्मणा जातो गजः कथमिहाऽऽगतः ॥
श्रीशिव उवाचपृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम् । वृत्तं यथावदाचरव्यौ निजं दुःशासनः क्रमात् गीतासप्तदशाध्यायं जपन्मालवभूपतिः । नरवर्योऽभवन्मुक्तः कालेनाल्पीयसा ततः ॥ ३०
इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये सप्तदशाध्यायमाहात्म्यवर्णनं नाम
सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥ (१७) आदितः श्लोकानां समष्ट्यङ्काः-४०१४५
अथाष्टाशीत्यधिकशततमोऽध्यायः ।
श्रीपार्वत्युवाचउक्तं सप्तदशाध्यायगौरवं भवता शिव । स त्वमष्टादशाध्यायमहिमानमुदीरय ॥
* अयं श्लोकः केचित्पुस्तकेषु नास्ति । अनपेक्षितश्च । + इदमधू क. स्त्र. ज. अ. पुस्तक स्थम् ।