SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ १८७ सप्ताशी त्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १५८९ कमर्चयसि गीर्वाणं के मनं जपसि प्रभो । का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय ॥ २३ द्विज उवाच - गीतानां पोडशाध्यायश्लोकान्कतिपयानहम् । जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः ॥ २४ श्रीशिव उवाचततो विहाय द्विरदकौतूहलरसं नृपः । आजगाम द्विजन्मानमादाय निजमन्दिरम् ॥ शुभ मुहूर्तमन्वीक्ष्य तोपयित्वा द्विजोत्तमम् । सुवर्णेर्लक्षसंख्याकैर्गीतामत्रमुपाददे ॥ गीतानां षोडशाध्यायश्लोकान्कतिपयानपि । समभ्यस्य ततो राजा गजमोक्षणकौतुकी ॥ २७ अथैकदा विनिर्गत्य बाह्याली सह सैनिकैः । तमेवामोचयद्राजा मत्तमाधोरणैर्गजम् ॥ २८ विस्मरन्भीतिवाक्यानि राज्यसौख्यममानयन् । तृणवज्जीवितं राजा गजस्याग्रेऽविशत्ततः ॥२९ आदाय गण्डफलकं मदपतिनिरङ्कुशम् । आययौ मन्त्रविश्वासानृपः साहसिकाग्रणीः ॥ ३० राहोरिव मुखादिन्दुः कालास्यादिव धार्मिकः । साधुः खलस्य वदनानृपो निरगमद्गजात् ॥३१ आगत्य नगरं राजा त्वभिषिच्य कुमारकम् । गीतानां षोडशाध्यायादवाप परमां गतिम् ॥३२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये पोडशाध्यायमाहात्म्यवर्णनं नाम षडशीत्यधिकशततमोऽध्यायः ॥ १८६ ॥ (१६) आदितः श्लोकानां समष्ट्यङ्काः-४०११५ अथ सप्ताशीत्यधिकशततमोऽध्यायः । ईश्वर उवाचषोडशाध्यायसामर्थ्य कथितं शृणु सांप्रतम् । स्पष्टं सप्तदशाध्यायमहिमाम्भोनिधि शिवे ॥ १ खड़वाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत् । तं गजं धर्तुमागम्य गजात्माप्तो यमक्षयम् ॥ २ तद्वासनानिवद्धात्मा गजयोनिमवाप्य च । गीतासप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ॥ ३ श्रीदेव्युवाचदुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम् । तदेव वद कल्याण विस्तरेण मम प्रभो ॥ ४ ईश्वर उवाचस्थितः कश्चन दुर्मेधा माण्डलिककुमारकैः । बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः॥ ५ गत्वा कतिपयान्येव पदानि जनवारितः । नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदी(द)रयन(त)६ ततो निशम्य तद्वाक्यं क्रोधान्धः सिन्धुरोऽभवत् । न्यपतच्च स्खलत्पादः कम्प्यमानः कुमारकैः।। ततो निपतितं किंचिदुच्छ्रसन्तं गजी रुपा । ऊर्ध्वमुन्मूलयांचक्रे कृतान्तकनिरङ्कुशः ॥ ८ गतासोरपि रोपेण तस्यास्थीनां (स्थां च) गणं गजः। विकीर्णवान्पृथकृत्वा मत्ता दन्तावलस्ततः ततः कालेन संप्रेत्य गजयोनिमवाप्य सः । महान्तं कालमनयत्सिंहलद्वीपभूपतेः॥ १० मेत्री गरीयसी साध रखडवाहुमहीभुजा । ततोऽसौ जलमार्गेण प्रापितः स तु वारणः ॥ ११ जयदेवेन खड़वाहोः प्रीत्या नीतो महीभुजा । जाति स्मरस्वकीयां स पश्यन्वन्धन्सहोदरान १२ दुःखेन महता स्तोकान्दिवसानत्यवाहयत् । राजा कदाचित्मतुष्टः समस्याश्लोकपरणः ॥ १३ १त्र, यमाहात्म्यं क।. अ. ल्याणं वि'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy