________________
१८२ घशीत्यधिकशततमोऽध्यायः] पद्मपुराणम् ।
१५८१ श्रीशिव उवाचइत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः । आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति ॥ ४१ प्रणम्य तस्य पादानं कृताञ्जलिरवस्थितः । तमुवाच ततो विप्रः प्रहितोऽसि त्वमम्बया॥ त्वदीप्सितमिदं सर्व साधयामि विलोकय ॥
४२ श्रीशिव उवाचइत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मान्त्रिकः । ऐक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ४३ कृताञ्जलिपुटान्देवान्वेपमानकलेवरान् । अथ तानमरान्सर्वान्संवभाषे द्विजोत्तमः ॥ ४४
सिद्धसमाधिरुषाचअमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः। नीतोऽस्ति देवराजेन क्षपायामपहृत्य यः॥ गीर्वाणास्तूर्णमर्वाणं समानयत मा चिरम् ॥
श्रीशिव उवाचअथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरंगमः । समर्पितस्ततस्तेन तेऽनुज्ञाता दिवौकसः॥ आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरंगमम् । महीपतिसुतो नत्वा तं मुनि वाक्यमब्रवीत् ॥ ४७
राजपुत्र उवाचआश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम । कृतमेतत्त्वया विप्र त्रिदशाकर्षणं क्षणात् ॥ ४८ हठादाकृष्य दत्तो मे यज्ञीयोऽयं तुरंगमः । न किंचिदपरं यावदुष्करं यत्सुरैरपि ॥ प्रभविष्यति तत्कर्तुं भवानव नचापरः । शृणु विप्र महीपालः पिताऽऽसीन्मे बृहद्रथः ॥ आरब्धहयमेधोऽसौ देवेन निधनं गतः। अद्यापि तस्य देहोऽस्ति तप्ततैलेन शोषितः ।। तस्य संजीवनं भूयः कर्तुमर्हसि सत्तम ।
श्रीशिव उवाचइत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः । यामस्तत्र पिता यत्र तावको यागमण्डपे ॥ ५२ अथाऽऽगत्य समं तेन तत्र सिद्धसमाधिना । पयोऽभिमन्य निदधे तस्य प्रेतस्य मूर्धनि ॥ ५३ ततः पाप नृपः संज्ञामुत्तस्थे वै ददर्श च । स तं पप्रच्छ विप्रेन्द्रं कोऽसि धर्मेति भृपतिः ॥ ५४ ततो राजसुतः सर्व भूपालाय न्यवेदयत् । स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ॥ ५५ बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी । यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ॥ यागचौद्धरितो विष येन मे तन्निरूपय ॥
श्रीशिव उवाचइत्युक्तस्तेन विप्रोऽसौ जगाद श्लक्ष्णया गिरा ।।
सिद्धसमाधिरुवाचगीतानां द्वादशाध्यायं जपाम्यहमतन्द्रितः । तेन शक्तिरियं राजन्यया प्राप्तोऽसि जीवितम् ॥५८
श्रीशिव उवाचएतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम् । पपाठ तस्माद्विप्रर्षेः सकाशाद्राह्मणान्वितः ॥ ५९
५६
१.ख. ज, ज. हस्तादा।