________________
१८१ एकाशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५७७ ग्रामपाल उवाचकथमेकादशाध्यायसामर्थ्यमिदमद्भुतम् । इति पृष्टो मया विप्र स बभाषे निशाचरः॥ ६३
राक्षस उवाचपुरा गृध्रेण केनापि नभोमार्गेण गच्छता । अस्थिखण्डं स्वकात्तुण्डात्पातितं कापि वारिणि॥६४ तं जलाशयमागत्य कोऽपि ज्ञानीश्वरस्तदा । महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् ॥ तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद ॥
मुनिरुवाचजपत्येकादशाध्यायं त्रिसंध्यं नियतेन्द्रियः। वित्तवानिति विमोऽसौ चोरेपादितः पथि॥६६ तस्यास्थिशकलं गृध्रवदनात्पतितं जले । तेन तीर्थमिदं दिव्यं जातं पातकनाशनम् ॥ ६७
राक्षस उवाचततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये । निष्कल्मषतया चैवं प्रापुस्ते परमं पदम् ॥ ६८ एकादशस्य सामर्थ्यादध्यायस्य भविष्यति । ममापि मुक्तिः पान्थानां पुनरुत्थानमद्भुतम् ॥ ६९ यो मया कश्चिदुत्कीर्णो ब्राह्मणोऽत्रैव तिष्ठति । स च एकादशाध्यायं जपति स्म निरन्तरम् ७० स तेनाध्यायमन्त्रेण सप्तवाराभिमन्त्रितम् । विधाय वारि विपेन्द्रः क्षिपेद्यदि ममोपरि ॥ ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः ॥
ग्रामपाल उवाचइति तेनास्मि संदिष्टः समायातस्त्वदन्तिकम् ।।
विप्र उवाचराक्षसः केन पापेन जातोऽसौ वद रक्षक । यः क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान्।।७३
ग्रामपाल उवाचअस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः । एकदा शालिकेदाररक्षणे व्याकुलो द्विजः ।। ७४ नातिदूरे महागृध्रः पान्थमेकमभक्षयत् । तं विमोचयितुं दूरादयांचक्रेऽपि तापसः॥ ७५ भुक्त्वा पान्थ खगस्तावनिरगादम्बराध्वना । ततः स तापसः कोपात्तं बभाषे कृषीवलम् ॥७६
तापस उवाचधिक्त्वां हालिक दुष्टात्मन्कठोरमतिनिघृणम् । कुकिंभरं परत्राणविमुखं हतजीवितम् ॥ ७७ चौरैश्च दंष्ट्रिभिः सररिवह्निविषाम्बुभिः । गृध्रराक्षसभूतैश्च वेतालादिभिराहतान् ॥ ७८ जनानुपेक्षते शक्तः स तद्वधफलं लभेत् । न मोचयति यो विषं प्रभुश्चौरादिभिर्धतम् ॥ ७९ स याति नरकं घोरं स पुनर्जायते वृकः । निहन्यमानं विपिने गृध्रव्याघ्रण वीक्षितम् ।। ८० मुञ्च मुश्चेति यो वक्ति स याति परमां गतिम् । गवामर्थे हता व्याघेभिल्लेदुष्टैश्व राजभिः॥८१ तेऽपि यान्ति पदं विष्णोर्दुष्पाप्यं योगिनामपि । अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ८२ शरणागतसंत्राणकलां नार्हन्ति षोडशीम् । दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः॥ ८३ पुण्यवानपि कालेन कुम्भीपाके स पच्यते । पश्यन्नपि भवान्पान्थं दुष्टगृध्रेण भक्षितम् ॥ ८४
१ क. ख. ज. अ. 'नमेव च । यो । २ ज. 'दुद्गीर्ण ब्रा' । ३ क. ख. ज. अ. पीडितम् । ४ क. ख. ज अ. 'णि राजसय ।