________________
१५७४ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेश्रीशिव उवाचइत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ॥
भृङ्गिरिटिरुवाचपुरातनभवे कोऽयं ब्रह्महंसोऽभवत्कथम् । तवाग्रतः कुतो हेतोरुत्ससर्न कलेवरम् ॥ ८१
श्रीशिव उवाचइति भृङ्गिरिटेवाक्यमाकाहं तदाऽब्रवम् । द्विजवेश्मनि पूर्वेस्मिञ्जन्मन्ययमजायत ॥ ८२ सुतपा इति विख्यातो ब्रह्मचारी जितेन्द्रियः । वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ॥ ८३ गुरुशुश्रूषणं सम्यग्विदधाति स भक्तितः । शयानस्य गुरोः शय्यां निद्रितः स पदाऽस्पृशत् ८४ तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान् । पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ॥ ८५ अस्मिञ्जन्मन्यमुप्येह पुराऽस्मल्लोकनावधि । गीतानां दशमाध्यायं नलिन्या कथितं ततः ॥ ८६ आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम् । सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ॥ ८७ जन्माभ्यासवशादस्य शिशोरपि मुखाम्बुजात् । गीतानां दशमाध्यायः समुल्लसति सर्वदा ॥८८ तदर्थपरिणामेन सर्वभूतेष्ववस्थितम् । शङ्खचक्रधरं देवमयं पश्यति सर्वदा ॥
८९ यस्मिन्यस्मिन्सदैवास्य दृष्टिः स्निग्धा शरीरिणि । स स मुक्तो भवेत्सर्षः सुरापो ब्रह्महाऽथवा॥ तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा । इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः॥ ९१ अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता । तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ९२ न ददामि बहिर्गन्तुमहमस्य पुराकृतम् । दशमाध्यायमाहात्म्यात्तत्त्वज्ञानं सुदुर्लभम् ॥ ९३ लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा । तेनास्य चलतो हस्तं ददामि पथि गच्छतः ॥ ९४ दशमाध्यायमहिमा सोऽयं भृङ्गिरिटे महान् । इति भृङ्गिरिटेरग्रे कथितं यत्कथानकम् ॥ ९५ तवेदमत्र कथितं सर्वपापप्रणाशनम् । [*नरो वाऽप्यथवा नारी योऽपि कोऽपि च वा पुनः] ॥ अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ॥
९६ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये दशमाध्यायमाहात्म्यकथनं
नामाशीत्यधिकशततमोऽध्यायः ॥ १८० ॥ (१०) आदितः श्लोकानां समष्ट्यङ्काः-३०७५६
अथैकाशीत्यधिकशततमोऽध्यायः ।
.
देव्युवाचइतिहासोऽयमीशान श्रेयसां साधनं परम् । आकर्ण्य करुणापूर्ण मम काङ्क्षा प्रवर्तते ॥ १ एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम् । व्यावर्णय विरूपाक्ष वक्तृणां प्रथमं प्रभो ॥ २
ईश्वर उवाचआकर्णय कथां कान्ते गीतावर्णनसंश्रयाम् । विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् ॥ ३
।
* इदमधे क. ख. ज. अ. पुस्तकस्थम् ।
१ च. गन्नुं द्वारमस्य पुराऽऽवृत । २ क. ख. ज. अ. 'तम्य दासज्ञा' ।