________________
१८० अशीत्यधिकशततमोऽध्यायः ]
पद्मिन्युवाच --
६०
६१
६३ ६४
कलहंस गतोऽसि त्वं मां विलङ्घ्य विहायसा । तेन पातकपाकेन पतितोऽसि महीतले ।। ५३ तेनैव कालिमा काये तावकीये (ने)च लक्ष्यते । भवन्तं पतितं वीक्ष्य कृपापूर्णेन चेतसा ॥ ५४ मध्यमेनामुनाऽब्जेन वदन्त्या जातसौरभम् । आघ्राय पट्पदाः षष्टिसहस्राणि दिवं ययुः ।। ५५ एते ये भव[*ता दृष्टा नीलोत्पलसमन्विताः । सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः ॥ ५६ अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ।] कदाचित्कामिनी काचिच्चम्पकस्तवकस्तनी ॥ ५७ चलापाङ्गकलाकान्ततरङ्गितरसालसा । नासामुक्ताफलज्योत्स्नाचुम्बित स्मितदीधितिः ॥ ५८ वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ । गायन्त्याः स्वनमाकर्ण्य ब्राह्मणा हरिणा इव ५९ तां समागत्य ते सर्वे सममेव व्यलोकयन् । मया दृष्टा ममैत्रेयमित्यूचुस्ते परस्परम् ॥ मुष्टीमुष्टि ततस्तेषां भ्रातृणामभवद्रणः । अन्योन्यमुष्टिनिष्पिष्टवक्षसस्त्यक्तजीविताः ॥ ते भुक्त्वा निरयान्घोरान्बभ्रुवुः संरभा भुवि । तदा ते श्वापदानुर्दग्धा वन्येन वह्निना ॥ ६२ ततो मातङ्गतामेत्य पथि पान्थानघातयन् । वने विषोदकं पीत्वा ते ययुर्यममन्दिरम् || खरोष्ट्रटकमार्जारजन्मान्यासाद्य चे क्रमात् । ततो मधुव्रता जाता वर्तन्तेऽत्र सरोवरे ॥ अद्य मे गन्धमाघ्राय प्रापुस्ते वैष्णवं पदम् । शृणु पक्षीन्द्र वक्ष्यामि येन मय्यस्ति वैभवम् ।। ६५ एतस्माज्जन्मनः पूर्व तृतीये जन्मनि क्षितौ । सरोजवदना नाम द्विजातेः कन्यकाऽभवम् ।। ६६ पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता । कदाचित्सारिकामेकां पाठयन्त्यविलम्बितम् || ६७ सारिका भव पापे त्वं पत्या शप्ताऽस्मि कुप्यता । प्रेत्य सारित्वमासाद्य पातिव्रत्यमसादतः ६८ मुनीनामेव सदने कन्या काचित्पुपोष माम् । गीतानां दशमाध्यायं विभूतिरिति विश्रुतम् ॥ ६९ प्रातः पठति विमोऽसावश्रौषं तमघापहम् । कालेन सारिका देहमहं हित्वा विहंगम || दशमाध्यायमाहात्म्यादप्सराचाभवं दिवि । पद्मावतीति विख्याता पद्माया दयिता सखी ।। ७१ कदाचन मया यान्त्या विमानेन विहायसा । एतत्सरोवरं रम्यं विलोक्य विमलाम्बुजम् ॥ ७२ अवतीर्य जलक्रीडा यावदारभ्यते मया । दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता ॥ तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् । पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च ॥ मुखेन पञ्चमाम्भोजमिति पञ्चाम्बुजा त्वहम् । दृष्टा तेन मुनीन्द्रेण कोपज्वलितचक्षुषा ॥ अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः । इति शापं समुत्सृज्य तेन चान्तर्दधे क्षणात् ॥ विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते । मद्विलङ्घनमात्रेण पतितोऽसि महीतले । अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम । निशामय मया गीयमानमध्यायमुत्तमम् ॥ यस्याssकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ॥
७०
७३
७४
७५
७६
७७
पद्मपुराणम् ।
१५७३
* धनुश्चिदान्तर्गतः पाठः क. ख. च. ज. अ. पुस्तकस्थः ।
१ झ. सारसा । २ च ते । ३ च इत्युक्त्वा ।
७८
पक्ष्युवाच
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा । तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ।। मया समर्पितं तुभ्यं पद्मिन्या परमुत्तमम् ||
७९