________________
T
१५६८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेजपन्गीताष्टमाध्यायश्लोकाध नियतेन्द्रियः । संतुष्टवानहं देवि तदीयतपसा शृशम् ॥ २७ चिरं विचारयन्नेव तत्तपःसदृशं फलम् । दातुमुत्कण्ठितमना वर्तेय सांप्रतं प्रिये ॥ २८
पार्वत्युवाचहरिः प्रसन्नभूतोऽपि चिन्तां पाप यदि प्रभो । भावशर्मा हरेभक्तः किं पाप तत्फलं पुनः।। २९
श्रीमहादेव उवाचततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः । सुखमात्यन्तिकं प्राप भावशर्मा द्विजोत्तमः ॥ ३० लोभरे पदवीं सर्वे तदीया अपि वंशजाः। तत्कर्मवशतो ये वै संप्राप्ता यातनां पुरा॥ ३१ [*एतदेवाष्टमाध्यायमाहात्म्यं किंचिदेव ते । कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ॥ ३२
इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्येऽष्टमाध्यायमाहात्म्यकथनं
नामाष्टसप्तत्यधिकशततमोऽध्यायः ॥ १७८ ॥ (८) आदितः श्लोकानां समष्टयङ्काः-३९५०३
अथ नवसप्तत्यधिकशततमोऽध्यायः ।
।
श्रीमहादेव उवाचअतः परं प्रवक्ष्यामि नवमाध्यायमादरात् । संशृणुष्व स्थिरीभूय तुहिनाचलकन्यके ॥ १ अस्ति माहिष्मती नाम नगरी नर्मदातटे । तत्राऽऽसीन्माधवो नाम द्विजन्मा स शिवद्विजः ॥२ वेदवेदाङ्गतत्त्वज्ञः काले कालेऽतिथिपियः । अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ॥ ३ महान्तमध्वरं कर्तुं समारभे कदाचन । आलम्भनार्थमानीत छागः पूजितविग्रहः ॥ वाचमूचे हसत्रुच्चैर्जगद्विस्मयकारकः॥
छाग उवाचकिमेतैर्बहुभिर्यागविधिवद्विहितैरपि । विनश्वरफलैर्जन्मजरामरणहेतुभिः ॥ एतावत्यपि मे विप्र देशेयं दृश्यतामिति ॥
श्रीशिव उवाचछागस्यैवं वचोऽतीवकुतूहलपरं जनाः । निशम्य विस्मयं याताः क्रतुमण्डपवासिनः॥ ६ ततो बद्धाञ्जलिपुटो द्विजातिः स्तिमितेक्षणः । प्रणम्य श्रद्धधानस्तमपृच्छच्छागमादरात् ॥ ७
द्विज उवाचकिंजातीयः किमात्मा त्वं किंवृत्त इति मे वद । केन वा कर्मणाऽवाप्तं छागत्वमिति पृच्छतः॥८
छाग उवाचआसं पुरा द्विजातीनामन्वये चातिनिर्मले । आहा क्रतुसंघानां वेदविद्याविशारदः॥ ९ एकदा मम गेहिन्या पुत्ररोगप्रशान्तये । छागः प्रयाचितो मत्तश्चण्डिकाभक्तिनम्रया ॥ १० ततो निहन्यमानस्य चण्डिकामण्डपस्थले । छागस्य जननी मां तु शशाप ब्रह्मवादिनी ॥ ११
* अयं श्लोकः क.ख. ज. अ. पुस्तकस्थः ।
१ क, ख. ज. न. प्रदेयं ।