________________
१७८ अष्टसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५६७
अथाष्टसप्तत्यधिकशततमोऽध्यायः ।
।
श्रीशिव उवाचअष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति । यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि ॥ १ आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथे । द्विजन्मा भावशर्मेति तत्राऽऽसीद्गणिकापतिः॥ २ खादन्मांसं पिबन्सीधु चोरयन्साधुसंपदः । रममाणः परस्त्रीभिराखेटककुतूहली ॥ ३ अत्यवाहयदत्युग्रो गरीयांसं मनोरथम् । स कदाचित्पानगोष्ठयां तालीफलसुधारसम् ॥ ४ निपीय कण्ठपर्यन्तमजीर्णेनातिपीडितः। मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ॥ ५ तस्य च्छायामुपाश्रित्य निबिडामतिशीतलाम् । अभूतां दंपती कोचिद्ब्रह्मराक्षसतां गतौ ॥ ६
श्रीदेव्युवाचकिंजातीयौ किमात्मानौ किंवृत्तावित्युदीरय । कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ॥ ७
श्रीशिव उवाचवेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रार्थकोविदः । सदाचारोऽभवत्कश्चिविजो नाम कुशीवलः ॥ ८ जाया तु तस्य कुमतिनामधेया दुराशया । स सभार्यो महादानान्याददानोऽतिलोभवान् ।। ९ महिषी कालपुरुष हयादीननुवासरम् । अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् ॥ १० कालेन दंपती वृत्तौ ब्रह्मराक्षसरूपिणौ । पर्यटन्तौ महीचक्रं क्षुत्तुपाकुलविग्रहौ ॥ विशश्रमतुरागत्य मूलं तालतरोस्ततः । कथमेतन्महादुःखमावयोरुपगच्छति ॥ कथं वा जायते मुक्तिब्रह्मराक्षसयोनितः । इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत ॥ १३ ब्रह्मविद्योपदेशेन विनाऽध्यात्मविचारणम् । विना कर्मविधिज्ञानात्कथं मुच्येत संकटात् ॥ १४
भार्योवाचकिं तद्ब्रह्म किमध्यात्म किं कर्म पुरुषोत्तम । एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु ॥ १५ अष्टमाध्यायश्लोकार्धश्रवणात्स तरुस्तदा। विहाय तालरूपं तद्बभूव स कुशीबलः(दिव्यरूपवान्) सद्यो ज्ञानविधूतात्मा विमुक्तः पापकञ्चकात् । तन्माहात्म्याद्विनिर्मुक्तौ दंपती तो बभूवतुः॥१७ किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । एतावदेव उक्तं च दैवानिर्गत्य त(रगम)न्मुखात् १८ ततोऽन्तरिक्षादायातं कणत्किकिणिकं शुभम् । दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम् ॥१९ अप्सरोवदनाम्भोजभ्राम्यद्भुमरसंकुलम् । निर्मथ्यमानदुग्धाब्धिवेलाडिण्डिमपाण्डुरैः॥ २० गङ्गातरङ्गसुभगैश्चामरैरुपशोभितम् । गायद्गन्धर्वसुभगं नृत्यत्सुरवधूशतम् ॥ दिव्यं विमानमारूढौ दंपती जग्मतुर्दिवम् । अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम् ॥ २२ ततो लिलेख मेधावी श्लोकार्थमिदमादरात् । ययौ वाराणसी नाम नगरी मुक्तिदायिनीम् ॥२३ आराधयितुमन्विच्छन्देवदेवं जनार्दनम् । स तत्र कर्तुमारभे तपः परमुदारधीः॥ २४ अत्रान्तरे जगनाथो देवदेवो जनार्दनः । पृष्टो दुग्धाब्धिसुतया संयोज्य करपङ्कजम् ।। निद्रापथं विहायैव स्थीयते कथमित्युत ॥
श्रीभगवानुवाचकाश्यां भागीरथीतीरे तपस्यतितरां द्विजः । भावशर्माऽतिमेधावी मद्भक्तिरसपूरितः ॥ २६
१ अ. रमपुटम् ।
२५