________________
१५६६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेअभापयन्मनोवृत्तिं पुत्राणामग्रतः पिता । ततस्ते प्रातरुत्थाय परं विस्मयमागताः॥ १२ इतरेतरमाख्याय पश्यन्तस्ते निरङ्कुशाः । एकस्तत्र पितृस्नेहादुद्धर्तुमपि वाञ्छति ॥ १३ अन्यो द्रविणलोभेन निहन्तुं सर्पमीहते । इतरस्तु पितृस्नेहरसमोहितमानसः॥ १४ चिरादहिमयो न स्याच्छोचत्रोदिति केवलम् । मध्यमस्तु ततः पुत्रो वश्चयित्वा सहोदरौ ॥१५ केनापि च्छद्मनोत्थाय जगाम निजमालयम् । ततः शनैः समाहूय गृहिणी गुणशालिनीम् ॥१६ कुद्दालहस्तो निरगायत्राऽऽस्ते पन्नगः पिता । तेनाविदितवित्तेन चिदैनिश्चित्य तत्त्वतः ॥ १७ स्थानमागत्य तं हन्तुं वल्मीकं लोभबुद्धितः । भार्ययोत्सार्यते मृत्सा स्वयं तेन च खन्यते ॥१८ निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः। ततो गरलगण्डूनिगतैरतिदुःसहैः ॥ दिशः कवलयांचक्रे फणी फूत्कारमारुतैः ॥
अहिरुवाचकस्त्वं किमर्थमायातः कथं वा खन्यते बिलम् । केन वा पहितो मूह तदाख्याहि ममाग्रतः॥२०
पुत्र उवाचपुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी । आगतो रात्रिलब्धस्य स्वमस्य तु सुविस्मितः ॥ २१
श्रीशिव उवाचइत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम् । वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा ॥ २२
अहिरुवाचयदि पुत्रोऽसि मे तूर्ण मामुन्मोचय वन्धनात् । निक्षेपार्थाय संजातं पन्नगं पूर्वजन्मनः॥ २३
पुत्र उवाचपितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः । परित्यक्त्वाऽखिलं लोकमागतोऽहं यथा निशि
पितोवाचन तीर्थानि न दानानि न तपांसि नचाध्वराः। मामुन्मोचयितुं पुत्र प्रभवन्ति च सर्वथा ॥२५ । गीतानां सप्तमाध्यायमन्तरेण सुधामयम् । जन्तोर्जरामृत्युदुःखनिराकरणकारणम् ॥ २६ ' सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे । भोजय श्रद्धया पुत्र तेन मुक्तिन संशयः॥ २७ - अन्यानपि द्विजान्वत्स वेदविद्याविशारदान् । संभोजय यथाशक्त्या(क्ति)परमश्रद्धयान्वितः॥
_श्रीशिव उवाचइत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः। ते सर्वे सूनवोऽकुर्वन्यथादिष्टं ततोऽधिकम् ॥ २९ शङ्कुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम् । कृत्वा तु पुत्रसाद्रव्यं दिव्यदेहमुपाददौ ॥ ३० विभज्य दत्तं यत्पित्रा द्रव्यं तत्कोटिसंख्यया । तेन ते सूनवः सर्वे मुमुदुः साधुवृत्तयः॥ ३१ वापीकूपसरोयज्ञदेवप्रासादहेतवे । अन्नशालां ततोऽकुर्वन्पुत्रास्ते धर्मवुद्धयः ॥ [+सप्तमाध्यायजपतो मुक्तिभाजोऽभवंस्ततः । षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः] ॥ ३३ [*एतत्ते सप्तमाध्यायमाहात्म्यं कथितं शिवे । यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः ॥ ३४ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये सप्तमाध्यायमाहात्म्यकथनं नाम
सपसप्तन्याधिकशततमोऽध्यायः ॥ १७७ ।। (७) आदितः श्लोकानां समथ्यङ्काः-३९५७१
+ अयं श्लोक: क.ख. ज. ज. पुस्तकस्थः । * अयं श्लोको दु. पुस्तकस्थः ।