________________
१२५६ महामुनिश्रीव्यासपणीतं
[६ उत्तरखण्डेनारद उवाचततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः । रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम् ॥ २१ देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम् । अत्रान्तरे स्मृतः प्राप्तो हरेण मधुसूदनः॥ किं करोमीति तेनोक्तः शिवः माह जनादेनम् ।।
२२. हर उवाचविष्णो जालंधरः कस्मान हतः संगरे त्वया । कथं सुरान्परित्यज्य क्षीराब्धि शयितुं गतः॥२३
विष्णुरुवाचयदि तं हन्मि देवेश श्रीः कथं मम वल्लभा । तस्मात्त्वं पार्वतीकान्त जहि जालंधरं रणे ॥ २४ :
नारद उवाचतेजस्त्वं क्रोधनं मुञ्चेत्युक्तः शर्वेण केशवः । मुमोच वैष्णवं तेजस्तत्सर्वं समवर्धत ॥ तेजः प्रद्धं तदृष्ट्वा व्यापकं प्राह केशवम् ॥
शंकर उवाचएतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ ।
नारद उवाचविश्वकर्मादयस्ते च श्रुत्वा शंकरभाषितम् । निरीक्ष्य च तदाऽन्योन्यं किं कुर्म इति शङ्किताः २७ दृष्ट्वा तूष्णी स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम् । तदाऽऽह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः सोढुं न शक्तास्ते तेजो धर्तु केन च शक्यते । ततः प्रहस्य भगवानुत्पत्योपरि तेजसः॥ २९ वामाध्रिपाणिना शंभुनते भ्रमरीव यः + । अथ चक्रं समुत्पनं शंभोनतेनमर्दनात् ॥ ३० अरलक्षत्रयोपेतमस्थिकोटिसमाकुलम् । शर्वाइघ्रिकर्षणात्तस्य तेजसो निसृताः कणाः॥ ३१ विश्वकर्मा च तैर्वजं विमानानि च निर्ममे । ततस्ते निर्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम् ॥ ३२ त्राहि त्राहीति देवेशं प्रत्यूचुस्ते सुरा नृप । पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम् ॥ ३३ : यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत् । सृष्टेन तेन चक्रेण दग्धः कालोऽपतक्षितौ ॥ ३४ । ततस्तब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः । चक्राचिििवधेः कूर्च दग्धं दृष्ट्वाऽम्बिकापतिः॥३५ हसित्वा ब्रह्मणो हस्तागृहीत्वा सत्वरं शिवः । दधौ कक्षा(कुक्षि)पुटे चक्रं निधानं निर्धनो यथा ततो न दृश्यते चक्रं शिवकक्षा(कुक्षि)पुटे स्थितम् । महामूर्खस्य यदत्तं दानं तस्य फलं यथा ३७ इति श्रीमहापुराणे पाद्म उत्तरखण्डे नारदयुधिष्ठिरसंवादे नालंधरोपाख्याने सर्वदेवतेजोमयचक्रोत्पत्तिर्नाम दशमोऽध्यायः॥१०॥
आदितः श्लोकानां समष्ट्यङ्काः-३२१६५
अथैकादशोऽध्यायः।
नारद उवाचअत्रान्तरे मया गत्वा कथितं सिन्धुसूनवे । त्वां हन्तुं सर्ववीरेश प्रतिज्ञा शंभुना कृता ॥ १। श्रुत्वा स मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः ॥
+ एतदने अ. पुस्तके 'ततो देवा महेन्द्राधास्तेजसोपरि शंकरम्। नृत्यमानं तदा दृष्टवा मुदा वाद्यान्यवादयन् । तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीव यः' इत्यधिकम् ।