________________
१५५२
महामुनिश्रीव्यासप्रणीतं -
अतोऽन्यदात्मनो रूपं द्वैताद्वैतविवर्जितम् । भावाभावविनिर्मुक्तमायन्तरहितं प्रिये ॥ शुद्धसंवित्प्रभालाभपरानन्दैकसुन्दरम् । रूपमैश्वरमात्मैक्यं गम्यं गीतासु कीर्तितम् ॥ ईश्वर उवाच
१९
इत्याकर्ण्य वचो देवी देवस्यामिततेजसः । शङ्कमानाऽऽह वाक्येषु परस्परविरोधिताम् ॥ श्रीरुवाच --
स्वयं चेत्परमानन्दमवाङ्मनसगोचरम् । बोधयति कथं गीता इति मे छिन्धि संशयम् ॥ २० ईश्वर उवाच
श्रियः श्रुत्वा वचो युक्तमितिहासपुरःसरम् । आत्मानुगामिनीं दृष्टिं गीतां वोधितवान्प्रभुः ॥ २१ अहमात्मा परेशानि परापरविभेदतः । द्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः ॥ २२ अपरः पञ्चवक्त्रोऽहं द्विधा तस्यापि संस्थितिः । शब्दार्थभेदतो वाचो यथाऽऽत्माऽहं महेश्वरः ॥ गीताया वाक्यरूपेण यन्निरुच्छिद्यते दृढः । मदीयः पाशबन्धोऽयं संसारविषयात्मकः ॥ २४ यदभ्यासपराधीनः पञ्चवक्त्रो महेश्वरः । इति तस्य वचः श्रुत्वा गीतांशास्त्रमहोदधेः ॥ इदं परमभेदेन बोध्यते भवभीरुभिः । तमपृच्छदिदं वाक्यमङ्गप्रत्यङ्गसंस्थितम् ।। माहात्म्यमितिहासं च सर्वे तस्यै न्यवेदयत् ॥
२५
[ ६ उत्तरखण्डे -
१७
१८
२६
श्रीभगवानुवाच
शृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः । वक्त्राणि पञ्च जानीहि पञ्चाध्यायाननुक्रमात् दशाध्यायान्भुजांचैकमुदरं द्वौ पदाम्बुजे । एवमष्टादशाध्यायी वाङ्मयी मूर्तिरैश्वरी ॥ जानीहि ज्ञानमात्रेण महापातकनाशिनी । अत्राध्यायं तदर्थं वा श्लोकमधर्धमेव च ॥ अभ्यस्यति सुमेधा यः सुशर्मेव स मुच्यते ।।
२८
२९
श्रीरुवाच -
सुशर्मा नाम को देव किंजातीयः किमात्मकः । कुत्रत्यस्तस्य वै मुक्तिः केनाजायत हेतुना ॥ ३० श्रीभगवानुवाच -
३२
३३
३४
३५
सुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत् । अनाम्नायविदां वंशे विप्राणां क्रूरकर्मणाम् ।। ३१ न ध्यानं न जपो होमो नैव चातिथिपूजनम् । केवलं विषयेष्वेव लाम्पय्येनाभ्यवर्तते ॥ इलेन विलिखन्भूमिं पर्णजीवी सुराप्रियः । मांसोपहारैः सुचिरं कालमेवं निनाय सः ॥ आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम् । ततः कालेन दष्टोऽभूत्कालसर्पेण मूढधीः ॥ कालधर्म समासाद्य गत्वाऽथ निरयान्वहून् । पुनरागत्य मर्त्येषु बलीवर्दत्वमेयिवान् ॥ पङ्गुना केनचित्क्रीतस्ततः स्वजीवनाय सः । वहन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोऽनयत् ॥ कदाचित्पङ्गुना उच्चैश्चिरमावर्तितो जवात् । पपात सरसा भूमौ मूर्छा च प्रतिपेदिवान् ॥ विकीर्णाङ्गो विद्वत्ताक्षः फेनसंततिमुद्गिरन् । न जीवति न मृत्युं वा प्रतिपेदे कुकर्मणा ॥ कौतुकाकृष्टलोकेऽस्मिंस्तस्मिञ्जनसमागमे । श्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ॥ कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन । गणिका काऽपि तत्रस्था लोकयात्रानुवर्तिनी ॥४० अज्ञातनिजपुण्या सा किंचिदुत्सृष्टवत्यभूत् । परेतनगरीमादौ स नीतः कालकिंकरैः ॥
३६
३७
३८
३९
४१
१ क. प्रियम् । २ क. ज. 'तासारम' । ३ क. ज. दं लक्ष्मी ४ क. ज. 'त । कृषिकर्मरतो नित्यं प ।
1
1
f