________________
१५५१
१७१ एकसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । एकमेव परं तीर्थ नृसिंहाख्यं सुविस्तरम् । यच्छ्रुत्वा मुच्यते पापानरः सद्यो न संशयः ॥१०० इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवाद साभ्रमतीमाहात्म्ये नृसिंहतीर्थवर्णनं
नाम सप्तत्यधिकशततमोऽध्यायः ॥ १७ ॥
समाप्तमिदं साभ्रमतीमाहात्म्यम् । आदितः श्लोकानां समष्ट्यङ्काः-३९२००
अथैकसप्तत्यधिकशततमोऽध्यायः ।
श्रीपार्वत्युवाचभगवन्सर्वतत्त्वज्ञ श्रीविष्णोस्त्वत्प्रसादतः । श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः ॥ १ अधुना श्रोतुमिच्छामि गीतामाहात्म्यमप्यहम् । श्रुतेन येन देवेश हरौ भक्तिर्विवर्धते ॥ तद्वदस्वाधुना देव यद्यहं तव वल्लभा ॥
श्रीमहादेव उवाचअतसीपुष्पसंकाशं खगेन्द्रासनमच्युतम् । शयानं शेषशय्यायां महाविष्णुमुपास्महे ॥ ३ कदाचिदासने रम्ये सुखासीनं मुरद्विषम् । आनन्दयित्री लोकानां लक्ष्मीः पप्रच्छ साऽऽदरात्
श्रीरुवाचशयालुरसि दुग्धाब्धौ भगवन्केन हेतुना । उदासीन इवैश्वर्ये जगन्ति स्थापयनपि ॥ ५
ईश्वर उवाचइति देव्या वचः श्रुत्वा मुरभिद्रागर्भितम् । उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ॥ ६
श्रीभगवानुवाचनाहं सुमुखि निद्रालुनिजं माहेश्वरं महः । दृशा तत्त्वानुवर्तिन्या पश्याम्यन्तर्निमनया ॥ ७ कुशाग्रया धिया देवि यदन्तर्योगिनो हृदि । पश्यन्ति यच्च वेदानां सारं मीमांसटे शम् ॥ ८ तदेकर्मजरं ज्योतिरात्मरूपमनामयम् । अखण्डानन्दसंदोहं निस्पन्दि द्वैतवर्जितम् ॥ ९ यदाश्रया जगवृत्तिर्यन्मया चानुभूयते । न येन रहितं किंचिजगत्रयं चराचरम् ॥ १० निर्मथ्य वर्धाऽऽलोक्य वेदशास्त्राम्बुधिं सुधीः । द्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान्११ यदास्थाय महानन्दानन्दीकृतमनाः सदा । निद्रालुरिव देवेशि दुग्धान्धौ प्रतिभामि ते ॥ १२
ईश्वर उवाचइति तस्य मुरारातर्मितमानन्ददं वचः । प्रहर्षोत्फुल्ललोलाक्षी लक्ष्मीः श्रुत्वा विसिष्मिये ॥ १३
श्रीरुवाचभवानेव हृषीकेश ध्येयोऽसि यमिनां यदा । तस्मात्वत्तः परं चान्यदिति कौतूहलं हि मे ॥ १४ चराचराणां लोकानां कर्ता हर्ता स्वयं प्रभुः । यथा स्थितस्ततोऽन्यस्त्वं यदि मां वोधयाच्युत।।
श्रीभगवानुवाचमायामयमिदं देवि वपुर्मे न तु ताचिकम् । सृष्टिस्थित्युपसंहारक्रियाजालोपबृहितम् ॥ १६
१ क. ज. वपुः । २ क. ज. 'मक्षरं । ३ झ. निष्क्रियं । ४ १. झ. अ. धा नोकर्वेद । ५ क. ज. र यत्तच्छोतुं कौं।