SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १९७ सप्तपञ्चाशदधिकशततमोऽध्यायः ] पद्मपुराणम् । १५३९ Raftarसरे देवि द्वादश्यां विष्णुवासरे । श्येनस्तत्र समायातो ह्यतिथित्वेन भामिनि ॥ ११ कपोत देहि मांसं वै तव शारीरकं मम । नो चेच्छापं प्रदास्यामि इत्युक्तं नगनन्दिनि ।। १२ as वै वासरे विष्णोः क्षुधार्तोऽहं समागतः । तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम (तव) प्रभो १३ श्येनोक्तं तत्तु वै श्रुत्वा कपोतो वैष्णवो महान् । तेन दत्तं तदा देवि शरीरं नात्र संशयः ॥ १४ तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे । [कापोति [त ] कं महत्तीर्थं पावनानां च पावनम् ||१५ अत्र तीर्थे नरः स्नात्वा कृत्वा वै शिवपूजनम् । ददाति चातिथिभ्यश्च मिष्टमन्नं सुरोत्तमे ] ।। १६ इह लोके सुखं भुक्त्वा याति विष्णोः सनातनम् । दत्त्वा वै स्वशरीरं तु कपोतो वै महात्मने । स गतो वैष्णवं तत्र यावच्चन्द्रदिवाकरौ । अतो गत्वा तु भो देवि अतिथिं पूजयेत्सदा ॥ पूजिते चातिथौ तत्र सर्वे च लभते ध्रुवम् ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये कपोनतीर्थवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ।। १५५ ।। आदितः श्लोकानां समष्ट्यङ्काः-३८९६४ अथ षट्पञ्चाशदधिकशततमोऽध्यायः । १८ श्रीमहादेव उवाच - ३ तीर्थानां प्रवरं तीर्थं महापातकनाशनम् । गोतीर्थमिति विख्यातं काश्यप हदसमीपतः ॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । गोतीर्थे तु ततः स्नानान्नश्यन्ति नात्र संशयः २ गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः । यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ॥ तत्र तीर्थे नरः स्नात्वा गोभ्यो दत्त्वा गवाह्निकम् । गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ॥४ गोतीर्थे तु नरो गत्वा स्नात्वा यस्तु पयस्विनीम् । ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये गोतार्थमाहात्म्यकथनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ।। १५३ ।। आदितः श्लोकानां समश्यङ्काः—३८९६९ अथ सप्तपञ्चाशदधिकशततमोऽध्यायः । श्रीमहादेव उवाच - अत्र तीर्थ महच्चान्यत्काश्यपाख्यं सुरेश्वरि । यत्र हृदो महानासीन्नगदेवविनिर्मितः ॥ तत्र कुशेश्वरो नाम देवो यत्र विराजते । यत्र कुण्डं तथा रम्यं केश्यपेन विनिर्मितम् || तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत् । अग्निहोत्रकरा विमा नित्यं वेदपरायणाः ॥ ३ निवसन्ति महादेवि काश्यपायां बहुश्रुताः । यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ॥ ४ कश्यपेन यतथात्र तप्तं बहुतरं तपः । गङ्गा वै तपसा येन आनीतेशजटोद्भवा ।। सा गङ्गा काश्यपी देवि महापातकनाशिनी । यस्या दर्शनमात्रेण मुच्यन्ते दुष्टकिल्विषान् ॥ ६ * धनुश्चिह्नान्तर्गतः पाठः क. ज. फ. पुस्तकस्थः । १ क. काव्यह' । प.. काह। २ न. काव्यपेन ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy