________________
१५३६ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डे- '.. तया वै निहतो दैत्यः कोलो नाम महासुरः । तस्मात्तीर्थ महज्जातं कलौ गुप्तं तु पार्वति ॥ १० इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये पिप्पलादतीर्थवर्णनं नाम पश्चाश
दधिकशततमोऽध्यायः ॥ १५० ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८८९८
अथैकपञ्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचपिप्पलादात्ततस्तीर्थाविपचुमन्दार्कमुत्तमम् । तीर्थ साभ्रमतीतीरे व्याधिदौर्गन्ध्यनाशनम् ॥ १ . पुरा कोलाहले युद्धे दानवैनिर्जिताः सुराः । वृक्षेषु विविशुस्तत्र सूक्ष्माः प्राणपरीप्सया ॥ २ र तत्र बिल्वे स्थितः शंभुरश्वत्थे हरिरव्ययः । शिरीषेऽभूत्सहस्राक्षो निम्बे देवः प्रभाकरः॥ ३ एवमादियथायोग्यवृक्षेषु विविधास्तथा । यावत्कोलाहलो दैत्यो विष्णुना प्रभविष्णुना ॥ ४ हतो महाहवे तावत्स्थितास्ते वृक्षमास्थिताः । येन येन हि यो वृक्षो विबुधेन समाश्रितः॥ ५ स तु तन्मयतां यातस्तस्मात्तं न विनाशयेत् । इति सूर्यस्य विश्रामात्पिचुमन्दाकमुत्तमम् ॥ ६ तीर्थ रोगहरं स्नानात्साभ्रमत्यास्तटेऽभवत् । अत्र गत्वा विशेषेण तं रविं यदि(संप्र) पूजयेत् ॥ पूजयित्वा सुरश्रेष्ठे लभते वाञ्छितं फलम् । अत्र द्वादश नामानि गत्वा ये वै पठन्ति च ॥ ८ ते नराः पुण्यकर्माणो यावज्जीवं न संशयः । आदित्यं भास्करं भानुं रविं विश्वप्रकाशकम् ॥९ तीक्ष्णांशुं चैव मार्तण्डं सूर्य चैव प्रभाकरम् । विभावसुं सहस्राक्षं तथा पूषणमेव च ॥ १० एवं द्वादश नामानि यः पठेत्पयतः सुधीः । धनं वै पुत्रपौत्रांश्च लभते नगनन्दिनि ॥ ११ एकैकं नाम आश्रित्य योऽर्चयेत नरो भुवि । सप्तजन्म भवेद्विमो धनाढ्यो वेदपारगः ॥ १२ क्षत्रियो लभते राज्यं वैश्यो धनमवामुयात् । शूद्रो वे लभते भक्तिं तस्मात्सूक्तं परं जपेत् ॥१३ निम्बार्कात्तु परं तीर्थ न भूतं न भविष्यति । अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्धृवम्॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये निम्बार्कदेवतीर्थवर्णनं नामकपश्चाशदधि
___ कशततमोऽध्यायः ॥ १५१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८९१२
अथ द्विपञ्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचतस्माहूरतरे देवि सिद्धक्षेत्रमनुत्तमम् । अनिरुद्धो वृतः पूर्वमुषार्थे चित्रलेखया ॥ १ नीतो वाणासुरपुरं तिष्ठति स्म गृहे पुरा । पाशैर्वाणैश्च संरुद्धः कोटराक्षीमथास्मरत् ॥ साक्षाद्या वैष्णवी शक्तिः सदा रक्षणतत्परा । सेयं देवी नदीतीरे कृत्ये(ष्णे)नात्र प्रतिष्ठिता (न स्थापिता पुरा )॥ जित्वा बाणासुरं संख्ये द्वारकां प्रति गच्छता । अनिरुद्धस्य स्तोत्रेण साक्षात्सांनिध्यमागता॥४ तत्र तीर्थे नरः सात्वा वर्षमेकं प्रयत्नतः । कोटगक्षीमुग्वं दृष्ट्वा लक्ष्मीमामोनि पुष्कलाम् ॥ ५