________________
१५३५
१५० पञ्चाशदधिकशततमोऽध्यायः] पद्मपुराणम् । तत्र चन्द्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः । यो हरः सर्वदा व्यापी लोकानां सुखदो महान् २ अत्र स्नानं प्रकुर्वन्ति ध्यानं कुर्वन्ति नित्यशः । तत्फलं प्रामुयुस्ते वै साभ्रमत्यां शिवार्चनात्॥३ सोमेनात्र तपस्तप्तं कालं बहुतरं किल । तस्माचन्द्रेश्वरो नाम स्थापितो वै महेश्वरः॥ शुक्रेणापि तपस्तप्तं चन्द्रभागासमीपतः । अतस्तीर्थाधिकं तीर्थ पावनं सर्वदा भुवि ॥ ५ कलो गुप्तं तु ऋपिणा कारितं वै सुरेश्वरि । यत्र हेममयं लिङ्गं दृश्यते नात्र संशयः ॥ ६ अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनम् । ये नराः संगमिष्यन्ति धर्मानाल्लँभन्ति ते७ वृषोत्सर्गादिकं कर्म ये कुर्वन्ति विशेषतः । भुक्त्वा स्वर्गपदं ते वै पश्चाद्यान्ति हरालयम् ॥ ८ स्नानार्थ प्रत्यहं देवि चन्द्रभागासमीपतः। आगमिष्यन्ति ये लोकास्ते [*ज्ञेयाः पुण्यभागिनः९ गत्वा परतटे ये वै ह्यर्चयन्ति च तं शिवम् । चन्द्रेश्वरेतिनामानं श्रीहरं पापकृन्तनम् ॥ १० अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा । ये कुर्वन्ति नरश्रेष्ठास्ते] ज्ञेयाः शिवरूपिणः ॥ ११ सर्वदा तु सुरश्रेष्ठे येऽत्र स्नानं प्रकुर्वते । ते नरा विष्णुरूपाश्च विज्ञेया नात्र संशयः ॥ १२ येऽत्र श्राद्धं प्रकुर्वन्ति तिलपिण्डेन वा पुनः । तेऽपि विष्णुपदं यान्ति पिण्डदानप्रभावतः ॥१३ अत्र दानं प्रकर्तव्यं स्नानं वै विधिपूर्वकम् । यत्र स्नात्वा तु मुच्यन्ते ब्रह्महत्यादिकिल्बिषात् १४ तटेऽस्मिन्ये विशेषेण वटं वाऽऽरोपयन्ति ते । मृताः शिवपदं यान्ति यावच्चन्द्रदिवाकरौ ॥ १५ इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये चन्द्रेश्वरचन्द्रभागामहिमवर्णनं
नामैकोनपश्चाशदधिकशततमोऽध्यायः ॥ १४९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८८८८
अथ पश्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचदुग्धेश्वरसमीपे तु तीर्थ चातीव पावनम् । रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि ॥ १ यत्र कृत्वा तपः पूर्व मातुर्वचनतो मुनिः । उत्पादयामास कृत्यां वडवानलसंमिताम् ॥ २ पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः । तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ॥३ साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरि । तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ॥ ४ आरोपणं पिप्पलानां कर्तव्यं विधिपूर्वकम् । कृते सति महादेवि मुच्यते कर्मबन्धनात् ॥ ५
श्रीपार्वत्युवाचकिमर्थ सा तु कृत्या वै उत्पन्ना तां विबोधय । तया वै कत्यया पूर्व किं कृतं वद मे प्रभो ॥ येन पुत्रेण साऽऽनीता पितुरानृण्यकारणात् ॥
श्रीमहादेव उवाचदधीच ऋषिवर्योऽसौ ह्यागतस्तपकारणात् । अत्र तेन महत्तप्तमृपिणा परमात्मना ॥ तत्र कोलासुरो नाम विघ्नार्थ वै समागतः । तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ॥ तदृष्टं तु मुपुण्येन कहोडेन च धीमता । कृत्या झुत्पादिता तत्र हननार्थ सुरेश्वरि ॥
* धनुचिहान्तर्गतः पाठः क. अ. फ. पुस्तकस्थः ।