________________
१४३ त्रिचत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
अथ द्विचत्वारिंशदधिकशततमोऽध्यायः ।
महादेव उवाचतीर्थादस्मात्परं तीर्थ मालार्कोत्तरतः स्थितम् । चन्दनेश्वरमागच्छेदामोदीस्थानमुत्तमम् ॥ ? दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः । प्रतिज्ञामात्मनः सर्वी पूरयित्वा सुदारुणाम् ॥ २ कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबन्धनम् । कृत्वा दत्त्वा द्विजातिभ्यस्तीर्थयात्रां ततोऽगमत् साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह । आनीतः साभ्रमत्यां यः स्वर्गाचन्दनपादपः ॥४ स तु लिङ्गतया जातः पुण्यतीर्थप्रभावतः । [*ततः प्रभृति तीर्थ च चन्दनाढयसंज्ञितम् ॥ ५ जन्दनेश इति ख्यातो रुद्रो वे पार्वतीपतिः । तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम् न नरो निरयं गच्छेद्रुद्रलोकमवामुयात् । चन्दनेशं ततो दृष्ट्वा विश्वेशं लोकशंकरम् ॥ ७ पूजयेच्च यथाशक्त्या(क्ति)रुद्रलोकमभीप्सुकः । यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः॥ ८ स गतः शिवलोकं तं यत्र गत्वा न शोचति । मज्जन्ति ऋषयो यत्र यत्र देवः सनातनः ॥ ९ साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः । इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः॥ यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति । अत्र चाऽऽमदकैः पुण्यैः फलैर्नानाविधैः शुभैः कर्तव्यमर्घ्यदानं च विधिना तत्र सुन्दरि ।। इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे चन्दनेश्वरमाहात्म्यकथनं नाम द्विचत्वा
रिंशदधिकशततमोऽध्यायः ।। १४२ ।। आदिनः श्लोकानां समष्ट्यङ्काः-१८५८३
अथ त्रिचत्वारिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचजम्बुतीर्थ ततो गच्छेत्स्नानार्थ पापनाशनम् । कलिकाले च यत्पुंसां स्वर्गसोपानवस्थितम् ॥१ यत्र जाम्बवता पूर्व दशाङ्गे पर्वतोत्तमे । [+स्थापितमृक्षराजेन लिङ्गं सुरगणाचितम् ॥ २ रामेण हि यदा पूर्व हतो वै रावणोऽसुरः । तदा जाम्बवता दिक्षु भेरीघोषैः प्रघोषितम् ।। ३ जितं वै रामचन्द्रेण रावणो निहतो रणे । लब्धा सीतेति संघोष्य स्नातं. तीर्थवरे शुभे ॥ ४ स्थापितं तत्र लिङ्गं तु स्वनाम्ना तु सुरेश्वरि । नत्र नात्वा नरः मद्यः स्मृत्वा गमं महानुजम् ।। जाम्बवतेश्वरं नत्वा रुद्रलोके महीयते ॥
*महादेव उवाच---- यत्र यत्र हि भो देवि श्रीरामस्मरणं कृतम् । भवबन्धविमोक्षा हि दृश्यते सचराचरे ॥ ६ अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च । एवं ज्ञात्वा तु देवेशि न भेदो वर्तते कचित् ॥ ७ राम रामेति रामेति मनसा ये जपन्ति च । तेषां सर्वार्थसिद्धिश्च भविष्यति युगे युगे ॥ ८ अहं हि सर्वदा देवि श्रीरामस्मरणं चरे । यं श्रुत्वा तु पुनर्देवि न भवो जायने कचित् ॥ ९ ___* धनुश्विद्वान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुचिहान्तर्गतः पाठो ज. फ पुस्तकस्थः । * इदमधिकम् ।
१ अ. वैकुण्ट ए। २ फ. म्मला।