________________
१३७ सप्तत्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५१७ स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेत् । एवं चिन्तां प्रकुर्वाणो न मुखं लभते कचित् ॥ तदा स्वगृहमुत्सृज्य गतो वै गुरुसंनिधौ ॥
मङ्किरुवाचनमो वै गुरवे तुभ्यं देवानामुपकारिणे । त्वं नाथः सर्वलोकानां ब्राह्मणानां च रक्षकः ॥ २६ यज्ञानां त्वं प्रकर्ता च द्विजराज नमोऽस्तु ते । अपुत्रोऽहं तु विप्रर्षे किं कर्तव्यमिति प्रभो ॥२७ वद त्वं तु यथा सर्व पुत्रो भवति निश्चितम् । अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ॥ २८ येन केनाप्युपायेन पुत्रस्य जननं चरेत् । इति वाक्यं तु संस्मृत्य ह्यागतस्तव संनिधौ॥ २९
गुरुरुवाचगच्छ त्वं मुनिशार्दूल यत्र साभ्रमती नदी । तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यसि ध्रुवम् ॥३०
महादेव उवाचतद्वाक्यं तु समाकर्ण्य नमस्कृत्वा तु दण्डवत् । स गतो विपराजस्तु नदीं साभ्रमती प्रति ॥ ३१ मङ्किनामा तु विप्रर्षिस्तत्र गत्वा तपो महत् । अतप्यत तदा देवि यावद्वर्षचतुष्टयम् ॥ ३२ तत्र तीर्थ कृतं तेन मकिना ब्रह्मवादिना । त्रेतायुगे तदा देवि कृतं तीर्थ महाद्भुतम् ॥ ३३ जातं तत्र न संदेहः पुत्रदं सार्वकामिकम् । अद्यापि मङ्कितीर्थ [*तु भूतले परिकीर्तितम् ॥ ३४ द्वितीयं पाण्डुपुत्रेण सप्तधारं प्रवर्तितम् । तस्मादेवं वरं तीर्थ न भूतं न भविष्यति ॥ ३५ स वै द्विजवरो मङ्किः पुत्रान्प्राप्य यथासुखम् । भोगान्नानाविधान्भुक्त्वा स गतो मन्दिरं मम ३६ एतदाख्यानकं दिव्यं पवित्रं परमं महत् । पुत्रसौख्यादिकं सर्व लभते श्रवणादतः ॥ ३७ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये सप्तधारादितीर्थवर्णनं
नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥ १३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८५०२
अथ मप्तत्रिंशदधिकशततमोऽध्यायः ।
महादेव उवाचब्रह्मवल्लीमहातीर्थ ततो गच्छेत्सुरेश्वरि । तस्य तीर्थस्य सारूप्यं साक्षाच्छृणु सुरोत्तमे ॥ ? यत्र साभ्रमतीतोयं ब्रह्मवल्यम्भसा सह । युज्यते ब्रह्मतीर्थ तत्पयागेण समं स्मृतम् ॥ २ तत्र पिण्डप्रदानेन तृप्तिादशवार्षिकी । पितृणां जायते नूनं ब्रह्मणो वचनं यथा ॥ गयाश्राद्धसमं पुण्यं ब्रह्मवल्यां विशेषतः। [येऽत्र ज्ञात्वा प्रकुर्वन्ति पितरस्तृप्तिमामयुः ॥ ४ गोदानं भूमिदानं च अन्नदानं तथैव च । एतदानसमं पुण्यं ब्रह्मवल्लयां विशेषतः ॥ अत्रेव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम् । परं ब्रह्म इति ध्यानाद्विष्णुलोकमवामुयुः॥ ६ पुष्करे चैव गङ्गायां क्षेत्रे चामरकण्टके । तत्र गत्वा तु देवेशि यत्फलं लभते नरः॥ तत्फलं समवानोति ब्रह्मवल्लयां विशेषतः । चन्द्रसूर्योपरागे च दानं ये ददते नराः॥ ८
* धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्यः । + धनुचिहान्तर्गतः पाट: फ. पुस्तकस्थः ।
१न. जनित। २ न. ब्रह्मणा ।।