________________
[६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतंअथ षटत्रिंशदधिकशततमोऽध्यायः ।
महादेव उवाचकम्बुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् । अर्चयेदेवदेवेशं नारायणमनामयम् ।। दत्त्वा दानानि विधिवद्राह्मणेभ्यो विधानतः । विष्णुलोकमवामोति तीर्थस्यास्य प्रभावतः ॥२ अत्र राजर्षिणा पूर्व विश्वामित्रेण धीमता । तपस्तप्तं विशेषेण प्रजाकामेन सुन्दरि ॥ ३ प्रनाकामो नरो यश्च कम्बुतीर्थ हि गच्छति । स प्रजां लभते नित्यं सत्यं सत्यं वरानने ॥ ४
इति कम्बुतीर्थमाहात्म्यम् । ततो गच्छेत्सुरश्रेष्ठि तीर्थ नाम कपीश्वरम् । संनिधौ रक्तसिंहस्य महापातकनाशनम् ॥ ५ बध्यमाने पुरा सेतो रामरावणविग्रहे । गृहीतपर्वतशङ्गेविशेषात्कपिभिः स्मृतम् ॥ नाम्ना कपीश्वरादित्यं चकुस्तीर्थमनुत्तमम् । यत्र तीर्थे नरः स्नात्वा कृत्वा च पितृतर्पणम् ॥ ७ दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया । तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः॥ ८ हनुमत्प्रमुरवैस्तत्र स्नातं यत्र दिनत्रयम् । कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः ॥ अस्मिस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम् । रूपवान्वहुभोगी च जायते नात्र संशयः॥१० वलं वाञ्छति यो लोको धर्म वा पुत्रमेव च । सर्व स तु लभेन्नित्यं कपितीर्थप्रभावनः ॥ ११
___ इति कपितीर्थमाहात्म्यम् ।। एकधारं ततो गच्छेत्तीर्थ परमपावनम् । एकधारे नरः स्नात्वा एकरात्रमुपोषितः ॥ १२ अर्चयन्स्वामिदेवेशं कुलानां तारयेच्छतम् । स्वामितीर्थसमं ज्ञेयं यत्र तीर्थावगाहनम् ॥ १३ रुंद्रलोकं नरो गच्छेत्तीर्थस्यास्य प्रभावतः। यत्र स्नात्वा च पीत्वा च ब्रह्मलोकं च गच्छति १४ ते लोकाः पुण्यकर्माणस्तटेऽस्मिन्संवसन्ति हि । न भयं विद्यने तेषां खड़धारादिकं च यत् ॥ नत्सर्वमाशु नश्येत तीर्थे होकप्रधारके ॥
. इत्येकधारतीर्थवर्णनम् । सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमम् । सप्तसारस्वतं नाम यत्कृत मुनिभिः कृतम् ॥ १६ त्रेतायुगे मङ्कितीर्थ कृतं मङ्किमहर्षिणा । द्वापरे पाण्डुपुत्रैस्तु सप्तधारं प्रवर्तितम् ॥ १७ सप्तधारकता प्राप्तं तीर्थ हरजटाच्युतम् । सप्त रूपाणि गङ्गाया यानि लोकेषु सप्तसु ॥ १८ वहन्ति तानि पुण्यानि तीर्थेऽस्मिन्सप्तधारके । सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकम् ॥ १९ शृणु देवि प्रवक्ष्यामि चेतिहासं पुरातनम् । यं श्रुत्वा देवदेवेशि ब्रह्मलोके वजेध्रुवम् ॥ २० कौषीतकस्य पुत्रो वै मङ्किनामाऽतिविश्रुतः । विष्णुध्यानरतो नित्यं विष्णुलोकप्रपूजकः॥ २१ वेदाध्ययनकर्ता च अग्निहोत्रपरायणः । सुरूपा विश्वरूपति स्त्रियो द्वे स्तस्तु तद्गृहे ॥ २२ ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देवि विशङ्कितः । किं कर्तव्यमिति ध्यायन्नतिचिन्तापरोऽभवत् २३ [*आभ्यां पुत्रविहीनाभ्यां मम वंशो विनश्यति। पुत्रेण लभते स्वर्गो मुक्तिः पुत्रनो भवेत् ] २४
.
* धतुश्चिान्तर्गतः पाठः ख. फ. पुस्तकस्थः ।
१ ड. वेत्र।